Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।प्रसवार्थम् गतो यष्टुम् हयमेधेन वीर्यवान्॥ ॥१॥
अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च ।अब्रवीत् प्रश्रितम् वाक्यम् प्रसवार्थम् द्विजोत्तमम्॥ ॥२॥
यज्ञो मे क्रियताम् ब्रह्मन् यथोक्तम् मुनिपुङ्गव ।यथा न विघ्नाः क्रियन्ते यज्ञांगेषु विधीयताम्॥ ॥३॥
भवान् स्निग्धः सुहृन् मह्यम् गुरुः च परमो महान् ।वोढव्यो भवता च एव भारो यज्ञस्य च उद्यतः॥ ॥४॥
तथा इति च स राजानम् अब्रवीत् द्विजसत्तमः ।करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम्॥ ॥५॥
ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञ कर्मसु निष्ठितान् ।स्थापत्ये निष्ठिताम् च एव वृद्धान् परम धार्मिकान्॥ ॥६॥
कर्म अन्तिकान् शिल्पकारान् वर्धकीन् खनकान् अपि ।गणकान् शिल्पिनः च एव तथा एव नट नर्तकान्॥ ॥७॥
तथा शुचीन् शास्त्र विदः पुरुषान् सु बहु श्रुतान् ।यज्ञ कर्म समीहन्ताम् भवन्तो राज शासनात्॥ ॥८॥
इष्टका बहु साहस्री शीघ्रम् आनीयताम् इति ।उपकार्याः क्रियन्ताम् च राज्ञो बहु गुणान्विताः॥ ॥९॥
ब्राह्मण आवसथाः चैव कर्तव्याः शतशः शुभाः ।भक्ष्य अन्न पानैः बहुभिः समुपेताः सुनिष्ठिताः॥ ॥१०॥
तथा पौर जनस्य अपि कर्तव्याः च सुविस्तराः ।आगतानाम् सुदूरात् च पार्थिवानाम् पृथक् पृथक्॥ ॥११॥
वाजिवारण शलाः च तथा शय्या गृहाणि च ।भटानाम् महदावासम् वैदेशिक निवासिनाम्॥ ॥१२॥
आवासा बहु भक्ष्या वै सर्व कामैः उपस्थिताः ।तथा पौरजन्स्य अपि जनस्य बहु शोभनम्॥ ॥१३॥
दातव्यम् अन्नम् विधिवत् सत्कृत्य न तु लीलया ।सर्वे वर्णा यथा पूजाम् प्राप्नुवन्ति सुसत्कृताः॥ ॥१४॥
न च अवज्ञा प्रयोक्तव्या काम क्रोध वशात् अपि ।यज्ञ कर्मसु ये व्यग्राः पुरुषाः शिल्पिनः तथा॥ ॥१५॥
तेषाम् अपि विशेषेण पूजा कार्या यथा क्रमम् ।ये स्युः संपूजिता सर्वे वसुभिः भोजनेन च॥ ॥१६॥
यथा सर्वम् सुविहितम् न किंचित् परिहीयते ।तथा भवन्तः कुर्वन्तु प्रीति युक्तेन चेतसा॥ ॥१७॥
ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् ।यथेष्टम् तत् सुविहितम् न किंचित् परिहीयते॥ ॥१८॥
यथोक्तम् तत् करिष्यामो न किंचित् परिहीयते ।ततः सुमंत्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत्॥ ॥१९॥
निमंत्रयस्व नृपतीन् पृथिव्याम् ये च धार्मिकाः ।ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च एव सहस्रशः॥ ॥२०॥
समानयस्व सत्कृत्य सर्व देशेषु मानवान् ।मिथिलाधिपतिम् शूरम् जनकम् सत्य वादिनम्॥ ॥२१॥
तम् आनय महाभागम् स्वयम् एव सुसत्कृतम् ।पूर्व संबन्धिनम् ज्ञात्वा ततः पूर्वम् ब्रवीमि ते॥ ॥२२॥
तथा काशी पतिम् स्निग्धम् सततम् प्रिय वादिनम् ।सद् वृत्तम् देवसंकाशम् स्वयम् एव अनयस्व ह॥ ॥२३॥
तथा केकय राजानम् वृद्धम् परम धार्मिकम् ।श्वशुरम् राज सिंहस्य सपुत्रम् त्वम् इह आनय॥ ॥२४॥
अङ्गेश्वरम् महेष्वासम् रोमपादम् सु सत्कृतम् ।वयस्यम् राज सिंहस्य सपुत्रम् तम् इह आनय॥ ॥२५॥
तथा कोसल राजानम् भानुमंतम् सुसत्कृतम् ।मगध अधिपतिम् शूरम् सर्व शास्त्र विशारदम्॥ ॥२६॥
प्राप्तिज्ञम् परमोदारम् सुसत्कृतम् पुरुषर्षभम् ।राज्ञः शासनम् आदाय चोदयस्व नृपर्षभान् ।प्राचीनान् सिन्धु सौवीरान् सौराष्ठ्रेयाम् च पार्थिवान्॥ ॥२७॥
दाक्षिणात्यान् नरेन्द्राम् च समस्तान् आनयस्व ह ।सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी तले॥ ॥२८॥
तान् आनय यथा क्षिप्रम् स अनुगान् सह बान्धवान् ।एतान् दूतैः महाभागैः आनयस्व नृप आज्ञ्या॥ ॥२९॥
वसिष्ठ वाक्यम् तत् श्रुत्वा सुमंत्रः त्वरितः तदा ।व्यादिशत् पुरुषान् तत्र राज्ञाम् आनयने शुभान्॥ ॥३०॥
स्वयम् एव हि धर्मात्मा प्रयातो मुनि शासनात् ।सुमंत्रः त्वरितो भूत्वा समानेतुम् महामतिः॥ ॥३१॥
ते च कर्मान्तिकाः सर्वे वसिष्ठाय च महर्षये ।सर्वम् निवेदयन्ति स्म यज्ञे यत् उपकल्पितम्॥ ॥३२॥
ततः प्रीतो द्विज श्रेष्ठः तान् सर्वान् मुनिर् अब्रवीत् ।अवज्ञया न दातव्यम् कस्य चित् लीलया अपि वा॥ ॥३३॥
अवज्ञया कृतम् हन्यात् दातारम् न अत्र संशयः ।ततः कैश्चित् अहो रात्रैः उपयाता महीक्षितः॥ ॥३४॥
बहूनि रत्नानि आदाय राज्ञो दशरथस्य ह ।ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत्॥ ॥३५॥
उपयाता नर व्याघ्र राजानः तव शासनात् ।मया अपि सत्कृताः सर्वे यथा अर्हम् राज सत्तम॥ ॥३६॥
यज्ञीयम् च कृतम् सर्वम् पुरुषैः सुसमाहितैः ।निर्यातु च भवान् यष्टुम् यज्ञ आयतनम् अन्तिकात्॥ ॥३७॥
सर्वकामैः उपहृतैः उपेतम् वै समन्ततः ।द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम्॥ ॥३८॥
तथा वसिष्ठ वचनात् ऋष्यशृन्गस्य च उभयोः ।दिवसे शुभ नक्षत्रे निर्यातो जगतीपतिः॥ ॥३९॥
ततो वसिष्ठ प्रमुखाः सर्व एव द्विजोत्तमाः ।ऋष्यशृन्गम् पुरस्कृत्य यज्ञ कर्म आरभन् तदा॥ ॥४०॥
यज्ञ वाटम् गताः सर्वे यथा शास्त्रम् यथा विधि ।श्रीमान् च सह पत्नीभी राजा दीक्षाम् उपाविशत्॥ ॥४१॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 13

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0