Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
तत् शुर्त्वा राज सिंहस्य वाक्यम् अद्भुत विस्तरम् ।हृष्ट रोमा महातेजा विश्वामित्रोऽभ्यभाषत॥ ॥१॥
सदृशम् राज शार्दूल तव एव भुवि न अन्यतः ।महावंश प्रसूतस्य वसिष्ठ व्यपदेशिनः॥ ॥२॥
यत् तु मे हृद् गतम् वाक्यम् तस्य कार्यस्य निश्चयम् ।कुरुष्व राज शार्दूल भव सत्य प्रतिश्रवः॥ ॥३॥
अहम् नियमम् आतिष्ठे सिध्द्यर्थम् पुरुषर्षभ ।तस्य विघ्नकरौ द्वौ तु राक्षसौ काम रूपिणौ॥ ॥४॥
व्रते मे बहुशः चीर्णे समाप्त्याम् राक्षसाविमौ ।मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ॥ ॥५॥
तौ मांस रुधिर ओघेण वेदिम् ताम् अभ्यवर्षताम् ।अवधूते तथा भूते तस्मिन् नियम निश्चये॥ ॥६॥
कृत श्रमो निरुत्साहः तस्मात् देशात् अपाक्रमे ।न च मे क्रोधम् उत्स्रष्टुम् बुद्धिः भवति पार्थिव॥ ॥७॥
तथा भूता हि सा चर्या न शापः तत्र मुच्यते ।स्व पुत्रम् राज शार्दूल रामम् सत्य पराक्रमम्॥ ॥८॥
काक पक्ष धरम् शूरम् ज्येष्ठम् मे दातुम् अर्हसि ।शक्तो हि येष मया गुप्तो दिव्येन स्वेन तेजसा॥ ॥९॥
राक्षसा ये विकर्तारः तेषाम् अपि विनाशने ।श्रेयः च अस्मै प्रदास्यामि बहुरूपम् न संशयः॥ ॥१०॥
त्रयाणाम् अपि लोकानाम् येन ख्यातिम् गमिष्यति ।न च तौ रामम् आसाद्य शक्तौ स्थातुम् कथम् च न॥ ॥११॥
न च तौ राघवात् अन्यो हन्तुम् उत्सहते पुमान् ।वीर्य उत्सिक्तौ हि तौ पापौ काल पाश वशम् गतौ॥ ॥१२॥
रामस्य राज शार्दूल न पर्याप्तौ महात्मनः ।न च पुत्र गतम् स्नेहम् कर्तुम् अर्हसि पार्थिव॥ ॥१३॥
अहम् ते प्रति जानामि हतौ तौ विद्धि राक्षसौ ।अहम् वेद्मि महात्मानम् रामम् सत्य पराक्रमम्॥ ॥१४॥
वसिष्ठोऽपि महातेजा ये च इमे तपसि स्थिताः ।यदि ते धर्म लाभम् तु यशः च परमम् भुवि॥ ॥१५॥
स्थिरम् इच्छसि राजेन्द्र रामम् मे दातुम् अर्हसि ।यदि अभ्यनुज्ञाम् काकुत्स्थ ददते तव मंत्रिणः॥ ॥१६॥
वसिष्ठ प्रमुखाः सर्वे ततो रामम् विसर्जय ।अभिप्रेतम् असंसक्तम् आत्मजम् दातुम् अर्हसि॥ ॥१७॥
दश रात्रम् हि यज्ञस्य रामम् राजीव लोचनम् ।न अत्येति कालो यज्ञस्य यथा अयम् मम राघव॥ ॥१८॥
तथा कुरुष्व भद्रम् ते मा च शोके मनः कृथाः ।इति एवम् उक्त्वा धर्मात्मा धर्मार्थ सहितम् वचः॥ ॥१९॥
विरराम महातेजा विश्वामित्रो महामतिः ।स तन् निशम्य राजेन्द्रो विश्वामित्र वचः शुभम्॥ ॥२०॥
शोकेन महता आविष्टः चचाल च मुमोह च ।लब्ध संज्ञः ततो उतथाय व्यषीदत भयान्वितः॥ ॥२१॥
इति हृदय मनो विदारणम्मुनि वचनम् तद् अतीव शुश्रुवान् ।नरपतिः अभवत् महान् महात्माव्यथित मनाः प्रचचाल च असनात्॥ ॥२२॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 19

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0