Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
तत् श्रुत्वा राज शार्दूलो विश्वामित्रस्य भाषितम् ।मुहूर्तम् इव निस्सज्ञः सज्ञावान् इदम् अब्रवीत्॥ ॥१॥
ऊन षोडश वर्षो मे रामो राजीव लोचनः ।न युद्ध योग्यताम् अस्य पश्यामि सह राक्षसैः॥ ॥२॥
इयम् अक्षौहिणी सेना यस्य अहम् पतिः ईश्वरः ।अनया सहितो गत्वा योद्ध अहम् तैर् निशाचरैः॥ ॥३॥
इमे शूराः च विक्रान्ता भृत्याः मे अस्त्र विशारदाः ।योग्या रक्षोगणैः योद्धुम् न रामम् नेतुम् अर्हसि॥ ॥४॥
अहम् एव धनुष्पाणिः गोप्ता समर मूर्धनि ।यावत् प्राणान् धरिष्यामि तावत् योत्स्ये निशाचरैः॥ ॥५॥
निर्विघ्ना व्रत चर्या सा भविष्यति सुरक्षिता ।अहम् तत्र आगमिष्यामि न रामम् नेतुम् अर्हसि॥ ॥६॥
बालो हि अकृत विद्यः च न च वेत्ति बलाबलम् ।न च अस्त्र बल संयुक्तो न च युद्ध विशारदः॥ ॥७॥
न च असौ रक्षसा योग्यः कूट युद्धा हि राक्षसा ।विप्रयुक्तो हि रामेण मुहूर्तम् अपि न उत्सहे॥ ॥८॥
जीवितुम् मुनि शार्दूल न रामम् नेतुम् अर्हसि ।यदि वा राघवम् ब्रह्मन् नेतुम् इच्छसि सुव्रत॥ ॥९॥
चतुरंग समायुक्तम् मया सह च तम् नय ।षष्टिः वर्ष सहस्राणि जातस्य मम कौशिक॥ ॥१०॥
कृच्छ्रेण उत्पादितः च अयम् न रामम् नेतुम् अर्हसि ।चतुर्णाम् आत्मजानाम् हि प्रीतिः परमिका मम॥ ॥११॥
ज्येष्ठे धर्म प्रधाने च न रामम् नेतुम् अर्हसि ।किम् वीर्याः राक्षसाः ते च कस्य पुत्राः च के च ते॥ ॥१२॥
कथम् प्रमाणाः के च एतान् रक्षन्ति मुनिपुंगव ।कथम् च प्रति कर्तव्यम् तेषाम् रामेण रक्षसाम्॥ ॥१३॥
मामकैः वा बलैः ब्रह्मन् मया वा कूट योधिनाम् ।सर्वम् मे शंस भगवन् कथम् तेषाम् मया रणे॥ ॥१४॥
स्थातव्यम् दुष्ट भावानाम् वीर्योत्सिक्ता हि राक्षसाः ।तस्य तद् वचनम् श्रुत्वा विश्वामित्रो अभ्यभाषत॥ ॥१५॥
पौलस्त्य वंश प्रभवो रावणो नाम राक्षसः ।स ब्रह्मणा दत्त वरः त्रैलोक्यम् बाधते भृशम्॥ ॥१६॥
महाबलो महावीर्यो राक्षसैः बहुभिः वृतः ।श्रूयते च महाराजा रावणो राक्षस अधिपः॥ ॥१७॥
साक्षात् वैश्रवण भ्राता पुत्रो विश्रवसो मुनेः ।यदा न खलु यज्ञस्य विघ्न कर्ता महाबलः॥ ॥१८॥
तेन संचोदितौ तौ तु राक्षसौ च महाबलौ ।मारीचः च सुबाहुः च यज्ञ विघ्नम् करिष्यतः॥ ॥१९॥
इति उक्तो मुनिना तेन राजा उवाच मुनिम् तदा ।न हि शक्तो अस्मि संग्रामे स्थातुम् तस्य दुरात्मनः॥ ॥२०॥
स त्वम् प्रसादम् धर्मज्ञ कुरुष्व मम पुत्रके ।मम च एव अल्प भाग्यस्य दैवतम् हि भवान् गुरुः॥ ॥२१॥
देव दानव गंधर्वा यक्षाः पतग पन्नगाः।न शक्ता रावणम् सोढुम् किम् पुनर् मानवा युधि॥ ॥२२॥
स तु वीर्यवताम् वीर्यम् आदत्ते युधि रावणः ।तेन च अहम् न शक्तोऽस्मि संयोद्धुम् तस्य वा बलैः॥ ॥२३॥
सबलो वा मुनिश्रेष्ठ सहितो वा मम आत्मजैः ।कथम् अपि अमर प्रख्यम् संग्रामाणाम् अकोविदम्॥ ॥२४॥
बालम् मे तनयम् ब्रह्मन् नैव दास्यामि पुत्रकम् ।अथ काल उपमौ युद्धे सुतौ सुन्दोपसुन्दयोः॥ ॥२५॥
यज्ञ विघ्न करौ तौ ते न एव दास्यामि पुत्रकम् ।मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ॥ ॥२६॥
तयोः अन्यतरम् योद्धुम् यास्यामि स सुहृत् गणः ।अन्यथा त्वनुनेष्यामि भवन्तम् सह बान्धव॥ ॥२७॥
इति नरपति जल्पनात् द्विजेन्द्रम्कुशिक सुतम् सुमहान् विवेश मन्युः ।सु हुत इव मखे अग्निः आज्य सिक्तःसमभवत् उज्वलितो महर्षि वह्निः॥ ॥२८॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 20

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0