Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
तत् श्रुत्वा वचनम् तस्य स्नेह पर्याकुलाक्षरम् ।समन्युः कौशिको वाक्यम् प्रति उवाच महीपतिम्॥ ॥१॥
पूर्वम् अर्थम् प्रति श्रुत्य प्रतिज्ञाम् हातुम् इच्छसि ।राघवाणाम् अयुक्तोऽयम् कुलस्य अस्य विपर्ययः॥ ॥२॥
यद् इदम् ते क्षमम् राजन् गमिष्यामि यथा आगतम् ।मिथ्या प्रतिज्ञः काकुत्स्थ सुखी भव सु हृद् वृतः॥ ॥३॥
तस्य रोष परीतस्य विश्वामित्रस्य धीमतः ।चचाल वसुधा कृत्स्ना देवानाम् च भयम्॥ ॥४॥
त्रस्त रूपम् तु विज्ञाय जगत्सर्वम् महान् ऋषिः ।नृपतिम् सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत्॥ ॥५॥
इक्ष्वाकूणाम् कुले जातः साक्षात् धर्म इव अपरः ।धृतिमान् सुव्रतः श्रीमान् न धर्मम् हातुम् अर्हसि॥ ॥६॥
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव ।स्व धर्मम् प्रतिपद्यस्व न अधर्मम् वोढुम् अर्हसि॥ ॥७॥
प्रति श्रुत्य करिष्ये इति उक्तम् वाक्यम् अकुर्वतः ।इष्टापूर्त वधो भूयात् तस्मात् रामम् विसर्जय॥ ॥८॥
कृतास्त्रम् अकृतास्त्रम् वा न एवम् शक्ष्यन्ति राक्षसाः ।गुप्तम् कुइशिक पुत्रेण ज्वलनेन अमृतम् यथा॥ ॥९॥
एष विग्रहवान् धर्म एष वीर्यवताम् वरः ।एष विद्य अधिको लोके तपसः च परायणम्॥ ॥१०॥
एषो अस्त्रान् विविधान् वेत्ति त्रैलोक्ये स चराचरे ।न एनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन॥ ॥११॥
न देवा न ऋषयः के चित् न अमरा न च राक्षसाः ।गन्धर्व यक्ष प्रवराः स किन्नर महोरगाः॥ ॥१२॥
सर्व अस्त्राणि कृशाश्वस्य पुत्राः परम धार्मिकाः ।कौशिकाय पुरा दत्ता यदा राज्यम् प्रशासति॥ ॥१३॥
ते अपि पुत्रा कृशाश्वस्य प्रजापति सुता सुताः ।न एक रूपा महावीर्या दीप्तिमंतो जयावहाः॥ ॥१४॥
जया च सुप्रभा च एव दक्ष कन्ये सुमध्यमे ।ते सूते अस्त्र शस्त्राणि शतम् परम भास्वरम्॥ ॥१५॥
पंचाशतम् सुतान् लेभे जया लब्ध वरा वरान् ।वधायासुरसैन्यानामप्रमेयानरूपिणः - यद्वा -वधाय असुर सैन्यानाम् अप्रमेयान् अरूपिणः॥ ॥१६॥
सुप्रभा अजनयत् च अपि पुत्रान् पंचाशतम् पुनः ।संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः॥ ॥१७॥
तानि च अस्त्राणि वेत्ति एष यथावत् कुशिक आत्मजः ।अपूर्वाणाम् च जनने शक्तो भूयः च धर्मवित्॥ ॥१८॥
तेन अस्य मुनि मुख्यस्य धर्मज्ञस्य महात्मनः ।न किंचिद् अस्ति अविदितम् भूतम् भव्यम् च राघव॥ ॥१९॥
एवम् वीर्यो महातेजा विश्वामित्रो महा यशाः ।न राम गमने राजन् संशयम् गन्तुम् अर्हसि॥ ॥२०॥
तेषाम् निग्रहणे शक्तः स्वयम् च कुशिकात्मजः ।तव पुत्र हितार्थाय त्वाम् उपेत्य अभि याचते॥ ॥२१॥
इति मुनि वचनात् प्रसन्न चित्तोरघु वृषभः च मुमोद पार्थिव अग्र्यः ।गमनम् अभिरुरोच राघवस्यप्रथित यशाः कुशिक आत्मजाय बुध्या॥ ॥२२॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 21

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0