Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
प्रभातायाम् तु शर्वर्याम् विश्वामित्रो महामुनिः ।अभ्यभाषत काकुत्स्थौ शयानौ पर्ण संस्तरे॥ ॥१॥
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।उत्तिष्ठ नर शार्दूल कर्तव्यम् दैवमाह्निकम्॥ ॥२॥
तस्य ऋषेः परम उदारम् वचः श्रुत्वा नृप नरोत्तमौ ।स्नात्वा कृत उदकौ वीरौ जेपतुः परमम् जपम्॥ ॥३॥
कृत आह्निकौ महावीर्यौ विश्वामित्रम् तपोधनम् ।अभिवाद्य अति संहृष्टौ गमनाय अभितस्थतुः॥ ॥४॥
तौ प्रयान्तौ महावीर्यौ दिव्यम् त्रिपथगाम् नदीम् ।ददृशा ते ततः तत्र सरय्वाः संगमे शुभे॥ ॥५॥
तत्र आश्रम पदम् पुण्यम् ऋषीणाम् भाविअत आत्मानाम् ।बहु वर्ष सहस्राणि तप्यताम् परमम् तपः॥ ॥६॥
तम् दृष्ट्वा परम प्रीतौ राघवौ पुण्यम् आश्रमम् ।ऊचतुः तम् महात्मानम् विश्वामित्रम् इदम् वचः॥ ॥७॥
कस्य अयम् आश्रमः पुण्यः को नु अस्मिन् वसते पुमान् ।भगवन् श्रोतुम् इच्छावः परम् कौतूहलम् हि नौ॥ ॥८॥
तयोः तद् वचनम् श्रुत्वा प्रहस्य मुनिपुंगवः ।अब्रवीत् श्रूयताम् राम यस्य अयम् पूर्व आश्रमः॥ ॥९॥
कन्दर्पो मूर्तिमान् आसीत् काम इति उच्यते बुधैः ।तपस्यंतम् इह स्थाणुम् नियमेन समाहितम्॥ ॥१०॥
कृत उद्वाहम् तु देवेशम् गच्छन्तम् स मरुद् गणम् ।धर्षयामास दुर्मेधा हुम् कृतः च महात्मना॥ ॥११॥
अवध्यतः च रुद्रेण चक्षुषा रघु नन्दन ।व्यशीर्यन्त शरीरात् स्वात् सर्व गात्राणि दुर्मतेः॥ ॥१२॥
तत्र गात्रम् हतम् तस्य निर्दग्धस्य महात्मनः ।अशरीरः कृतः कामः क्रोधात् देव ईश्वरेण ह॥ ॥१३॥
अनङ्ग इति विख्यातः तदा प्रभृति राघव ।स च अङ्ग विषयः श्रीमान् यत्र अंगम् स मुमोच ह॥ ॥१४॥
तस्य अयम् आश्रमः पुण्यः तस्य इमे मुनयः पुरा ।शिष्या धर्मपरा वीर तेषाम् पापम् न विद्यते॥ ॥१५॥
इह अद्य रजनीम् राम वसेम शुभ दर्शन ।पुण्ययोः सरितोः मध्ये श्वः तरिष्यामहे वयम्॥ ॥१६॥
अभिगच्छामहे सर्वे शुचयः पुण्यम् आश्रमम् ।इह वासः परोऽस्माकम् सुखम् वस्त्यामहे वयम्॥ ॥१७॥
स्नाताः च कृत जप्याः च हुत हव्या नरोत्तम ।तेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा॥ ॥१८॥
विज्ञाय परम प्रीता मुनयो हर्षम् आगमन् ।अर्घ्यम् पाद्यम् तथा आतिथ्यम् निवेद्य कुशिकात्मजे॥ ॥१९॥
राम लक्ष्मणयोः पश्चात् अकुर्वन् अतिथि क्रियाम् ।सत्कारम् सम् अनुप्राप्य कथाभिः अभिरंजयन्॥ ॥२०॥
यथा अर्हम् अजपन् संध्याम् ऋषयः ते समाहिताः ।तत्र वासिभिः आनीता मुनिभिः सुव्रतैः सह॥ ॥२१॥
न्यवसन् सुसुखम् तत्र काम आश्रम पदे तथा ।कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।यद्वा -कथाभिः अभि रामभिः अभि रमौ नृप आत्मजौरमयामास धर्मात्मा कौशिको मुनिपुङ्गवः॥ ॥२२॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 23

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0