Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
उपास्य रात्रि शेषम् तु शोणा कूले महर्षिभिः ।निशायाम् सुप्रभातायाम् विश्वामित्रो अभ्यभाषत॥ ॥१॥
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।उत्तिष्ठ उत्तिष्ठ भद्रम् ते गमनाय अभिरोचय॥ ॥२॥
तत् श्रुत्वा वचनम् तस्य कृत्वा पौर्व आह्णिक क्रियः ।गमनम् रोचयामास वाक्यम् च इदम् उवाच ह॥ ॥३॥
अयम् शोणः शुभ जलो गाधः पुलिन मण्डितः ।कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम्॥ ॥४॥
एवम् उक्तः तु रामेण विश्वामित्रो अब्रवीत् इदम् ।एष पंथा मया उद्दिष्टो येन यान्ति महर्षयः॥ ॥५॥
एवम् उक्त्वा महर्षयो विश्वमित्रेण धीमता ।पश्यन्तः ते प्रयाता वै वनानि विविधानि च॥ ॥६॥
ते गत्वा दूरम् अध्वानम् गते अर्ध दिवसे तदा ।जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुर् मुनि सेविताम्॥ ॥७॥
ताम् दृष्ट्वा पुण्य सलिलाम् हंस सारस सेविताम् ।बभूवुर् मुनयः सर्वे मुदिता सह राघवाः॥ ॥८॥
तस्याः तीरे ततः चक्रुः ते आवास परिग्रहम् ।ततः स्नात्वा यथा न्यायम् संतर्प्य पितृ देवताः॥ ॥९॥
हुत्वा चैव अग्निहोत्राणि प्राश्य च अमृतवत् हविः ।विविशुर् जाह्नवी तीरे शुभा मुदित मानसाः॥ ॥१०॥
विश्वामित्रम् महात्मानम् परिवार्य समंततः ।विष्टिताः च यथा न्यायम् राघवो च यथा अर्हम् ।संप्रहृष्ट मना रामो विश्वामित्रम् अथ अब्रवीत्॥ ॥११॥
भगवन् श्रोतुम् इच्छामि गङ्गाम् त्रि पथ गाम् नदीम् ।त्रैलोक्यम् कथम् आक्रम्य गता नद नदीपतिम्॥ ॥१२॥
चोदितो राम वाक्येन विश्वामित्रो महामुनिः ।वृद्धिम् जन्म च गंगाया वक्तुम् एव उपचक्रमे॥ ॥१३॥
शैलेन्द्रो हिमवान् राम धातूनाम् आकरो महान् ।तस्य कन्या द्वयम् राम रूपेण अप्रतिमम् भुवि॥ ॥१४॥
या मेरु दुहिता राम तयोर् माता सुमध्यमा ।नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया॥ ॥१५॥
तस्याम् गंग इयम् अभवत् ज्येष्ठा हिमवतः सुता ।उमा नाम द्वितीया अभूत् कन्या तस्य एव राघव॥ ॥१६॥
अथ ज्येष्ठाम् सुराः सर्वे देव कार्य चिकीर्षया ।शैलेन्द्रम् वरयामासुः गंगाम् त्रि पथ गाम् नदीम्॥ ॥१७॥
ददौ धर्मेण हिमवान् तनयाम् लोक पावनीम् ।स्वच्छंद पथ गाम् गंगाम् त्रैलोक्य हित काम्यया॥ ॥१८॥
प्रतिगृह्य त्रिलोक अर्थम् त्रिलोक हित कांक्षिणः ।गंगाम् आदाय ते अगच्छन् कृतार्थेन अंतरात्मना॥ ॥१९॥
या च अन्या शैल दुहिता कन्या आसीत् रघुनंदन ।उग्रम् सुव्रतम् आस्थाय तपः तेपे तपोधना॥ ॥२०॥
उग्रेण तपसा युक्ताम् ददौ शैलवरः सुताम् ।रुद्राय अप्रतिरूपाय उमाम् लोक नमस्कृताम्॥ ॥२१॥
एते ते शैल राजस्य सुते लोक नमस्कृते ।गंगा च सरिताम् श्रेष्ठा उमादेवी च राघव॥ ॥२२॥
एतत् ते सर्वम् आख्यातम् यथा त्रि पथ गामिनी ।खम् गता प्रथमम् तात गतिम् गतिमताम् वर॥ ॥२३॥
स एषा सुर नदी रम्या शैलेन्द्र तनया तदा ।सुर लोकम् समारूढा विपापा जल वाहिनी॥ ॥२४॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 35

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0