Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
विश्वामित्र वचः श्रुत्वा कथान्ते रघुनंदन ।उवाच परम प्रीतो मुनिम् दीप्तम् इव अनलम्॥ ॥१॥
श्रोतुम् इच्छामि भद्रम् ते विस्तरेण कथाम् इमाम् ।पूर्वजो मे कथम् ब्रह्मन् यज्ञम् वै समुपाहरत्॥ ॥२॥
तस्य तत् वचनम् श्रुत्वा कौतूहल समन्वितः ।विश्वामित्रः तु काकुत्स्थम् उवाच प्रहसन्निव॥ ॥३॥
श्रूयताम् विस्तरो राम सगरस्य महात्मनः ।शंकर श्वशुरो नाम हिमवान् इति विश्रुतः॥ ॥४॥
विंध्य पर्वतम् आसाद्य निरीक्षेते परस्परम् ।तयोर् मध्ये संभवत् यज्ञः स पुरुषोत्तम॥ ॥५॥
स हि देशो नरव्याघ्र प्रशस्तो यज्ञ कर्मणि।तस्य अश्व चर्याम् काकुत्स्थ दृढ धन्वा महारथः॥ ॥६॥
अंशुमान् अकरोत् तात सगरस्य मते स्थितः ।तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः १-३९-७राक्षसीम् तनुम् आस्थाय यज्ञिय अश्वम् अपाहरत् ।ह्रियमाणे तु काकुत्स्थ तस्मिन् अश्वे महात्मनः॥ ॥७॥
उपाध्याय गणाः सर्वे यजमानम् अथ अब्रुवन् ।अयम् पर्वणि वेगेन यज्ञिय अश्वो अपनीयते॥ ॥८॥
हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् ।यज्ञः च्छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः॥ ॥९॥
तत् तथा क्रियताम् राजन् यज्ञो अच्छिद्रः क्रुतो भवेत् ।सो उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः॥ ॥१०॥
षष्टिम् पुत्र सहस्राणि वाक्यम् एतत् उवाच ह ।गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुषर्षभाः॥ ॥११॥
मंत्र पूतैः महाभागैः आस्थितो हि महाक्रतुः ।तत् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः॥ ॥१२॥
समुद्र मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत ।एक एकम् योजनम् पुत्रा विस्तारम् अभिगच्छत॥ ॥१३॥
यावत् तुरग संदर्शः तावत् खनत मेदिनीम् ।तम् एव हय हर्तारम् मार्गमाणा मम आज्ञया॥ ॥१४॥
दीक्षितः पौत्र सहितः स उपाध्याय गणः तु अहम् ।इह स्थास्यामि भद्रम् वो यावत् तुरग दर्शनम्॥ ॥१५॥
ते सर्वे हृष्टमनसो राज पुत्रा महाबलाः ।जग्मुर् मही तलम् राम पितुर् वचन यंत्रिताः॥ ॥१६॥
गत्व तु पृथिवीम् सर्वम् अदृष्टा तम् महबलाः ।योजनायाम् अविस्तारम् एकैको धरणी तलम् ।बिभिदुः पुरुषव्याघ्र वज्र स्पर्श समैः भुजैः॥ ॥१७॥
शूलैः अशनि कल्पैः च हलैः च अपि सुदारुणैः ।भिद्यमाना वसुमती ननाद रघुनंदन॥ ॥१८॥
नागानाम् वध्यमानानाम् असुराणाम् च राघव ।राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो अभवत्॥ ॥१९॥
योजनानाम् सहस्राणि षष्टिम् तु रघुनंदन ।बिभिदुर् धरणीम् राम रसा तलम् अनुत्तमम्॥ ॥२०॥
एवम् पर्वत संबाधम् जम्बू द्वीपम् नृपात्मजाः ।खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः॥ ॥२१॥
ततो देवाः स गंधर्वाः स असुराः सह पन्नगाः ।संभ्रांत मनसः सर्वे पितामहम् उपागमन्॥ ॥२२॥
ते प्रसाद्य महात्मानम् विषण्ण वदनाः तदा ।ऊचुः परम संत्रस्ताः पितामहम् इदम् वचः॥ ॥२३॥
भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।बहवः च महात्मानो वध्यन्ते जल चारिणः॥ ॥२४॥
अयम् यज्ञ हरो अस्माकम् अनेन अश्वो अपनीयते ।इति ते सर्व भूतानि हिंसन्ति सगर आत्मजः॥ ॥२५॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 39

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0