Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा॥ ॥१॥
शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः॥ ॥२॥
अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम्॥ ॥३॥
अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः॥ ॥४॥
एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।धनुर् आदाय खड्गम् च जगाम लघुविक्रमः॥ ॥५॥
स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः॥ ॥६॥
देव दानव रक्षोभिः पिशाच पतग उरगैः ।पूज्यमानम् महातेजा दिशा गजम् अपश्यत॥ ॥७॥
स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च॥ ॥८॥
दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि॥ ॥९॥
तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे॥ ॥१०॥
तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।पूजितः स हयः चैव गन्ता असि इति अभिचोदितः॥ ॥११॥
तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।भस्म राशी कृता यत्र पितरः तस्य सागराः॥ ॥१२॥
स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः॥ ॥१३॥
यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः॥ ॥१४॥
स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।स जलार्थम् महातेजा न च अपश्यत् जल आशयम्॥ ॥१५॥
विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम्॥ ॥१६॥
स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः॥ ॥१७॥
कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम्॥ ॥१८॥
गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम्॥ ॥१९॥
भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति॥ ॥२०॥
निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि॥ ॥२१॥
सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।त्वरितम् हयम् आदाय पुनर् आयात् महायशाः॥ ॥२२॥
ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा॥ ॥२३॥
तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि॥ ॥२४॥
स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत॥ ॥२५॥
अगत्वा निश्चयम् राजा कालेन महता महान् ।त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः॥ ॥२६॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 41

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0