Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।विस्मयम् परमम् गत्वा विश्वामित्रम् अथ अब्रवीत्॥ ॥१॥
अति अद्भुतम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।गंगा अवतरणम् पुण्यम् सागरस्य अपि पूरणम्॥ ॥२॥
क्षण भूत इव नौ रात्रिः संवृत्त इयम् परंतप ।इमाम् चिंतयतोः सर्वम् निखिलेन कथाम् तव॥ ॥३॥
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह ।जगाम चिंतयान् अस्य विश्वामित्र कथाम् शुभाम्॥ ॥४॥
ततः प्रभाते विमले विश्वामित्रम् तपोधनम्।उवाच राघवो वाक्यम् कृत आह्निकम् अरिन्दमः॥ ॥५॥
गता भगवती रात्रिः श्रोतव्यम् परमम् श्रुतम् ।तराम सरितम् श्रेष्टम् पुण्यम् त्रि पथ गाम् नदीम्॥ ॥६॥
नौः एषा हि सुख आस्तीर्णा ऋषीणाम् पुण्य कर्मणाम् ।भगवंतम् इह प्राप्तम् ज्ञात्वा त्वरितम् आगता॥ ॥७॥
तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः ।संतारम् कारयामास स ऋषि संघस्य कौशिकः॥ ॥८॥
उत्तरम् तीरम् आसाद्य संपूज्य ऋषि गणम् ततः ।गंगा कूले निविष्टाः ते विशालाम् ददृशुः पुरीम्॥ ॥९॥
ततो मुनि वरः तूर्णम् जगाम सह राघवः ।विशालाम् नगरीम् रम्याम् दिव्याम् स्वर्ग उपमाम् तदा॥ ॥१०॥
अथ रामो महाप्राज्ञो विश्वामित्रम् महामुनिम् ।पप्रच्छ प्रांजलिः भूत्वा विशालाम् उत्तमाम् पुरीम्॥ ॥११॥
कतमो राज वंशो अयम् विशालायाम् महामुने ।श्रोतुम् इच्छामि भद्रम् ते परम् कौतूहलम् हि मे॥ ॥१२॥
तस्य तत् वचनम् श्रुत्वा रामस्य मुनिपुंगवः ।आख्यातुम् तत् समारेभे विशालस्य पुरातनम्॥ ॥१३॥
श्रूयताम् राम शक्रस्य कथाम् कथयतः श्रुताम् ।अस्मिन् देशे हि यत् वृत्तम् शृणु तत्त्वेन राघव॥ ॥१४॥
पूर्वम् कृत युगे राम दितेः पुत्रा महाबलाः ।अदितेः च महाभागा वीर्यवन्तः सुधार्मिकाः॥ ॥१५॥
ततः तेषाम् नरव्याघ्रः बुद्धिः आसीत् महात्मनाम् ।अमरा विर्जराः चैव कथम् स्यामो निरामयाः॥ ॥१६॥
तेषाम् चिंतयताम् तत्र बुद्धिः आसीत् विपश्चिताम् ।क्षीर उद मथनम् कृत्वा रसम् प्राप्स्याम तत्र वै॥ ॥१७॥
ततो निश्चित्य मथनम् योक्त्रम् कृत्वा च वासुकिम् ।मन्थानम् मन्दरम् कृत्वा ममन्थुर् अमित ओजसः॥ ॥१८॥
अथ वर्ष सहस्रेण योक्त्र सर्प शिरांसि च ।वमन्तो अति विषम् तत्र ददंशुर् दशनैः शिलाः॥ ॥१९॥
उत्पपाताम् अग्नि संकाशम् हालाहल महाविषम् ।तेन दग्धम् जगत् सर्वम् स देव असुर मानुषम्॥ ॥२०॥
अथ देवा महादेवम् शंकरम् शरणार्थ्तिनः ।जग्मुः पशुपतिम् रुद्रम् त्राहि त्राहि इति तुष्टुवुः॥ ॥२१॥
एवम् उक्{]तः ततो देवैः देवेश्वरः प्रभुः ।प्रादुर् आसीत् ततो अत्र एव शंख चक्र धरो हरिः॥ ॥२२॥
उवाच एनम् स्मितम् कृत्वा रुद्रम् शूलधरम् हरिः ।दैवतैः मध्यमानो तु तत् पूर्वम् समुपस्थितम्॥ ॥२३॥
तत् त्वदीयम् सुरश्रेष्ठः सुराणाम् अग्रतो हि यत् ।अग्र पूजामि इह स्थित्वा गृहाण इदम् विषम् प्रभो॥ ॥२४॥
इति उक्त्वा च सुरश्रेष्ठः तत्र एव अंतर्धीयत ।देवतानाम् भयम् दृष्ट्वा श्रुत्वा वाक्यम् तु शारङ्गिणः॥ ॥२५॥
हालाहलम् विषम् घोरम् संजग्राह अमृत उपमम् ।देवान् विसृउज्य देवेशो जगाम भगवान् हरः॥ ॥२६॥
ततो देव असुराः सर्वे ममन्थू रघुनंदन ।प्रविवेश अथ पातालम् मन्थानः पर्वतोत्तमः॥ ॥२७॥
ततो देवाः स गन्धर्वाः तुष्टुवुः मधुसूदनम् ।त्वम् गतिः सर्व भूतानाम् विशेषेण दिवौकसाम्॥ ॥२८॥
पालय अस्मान् महाबाहो गिरिम् उद्धर्तुम् अर्हसि ।इति श्रुत्वा हृषीकेशः कामठम् रूपम् आस्थितः॥ ॥२९॥
पर्वतम् पृष्टतः कृत्वा शिश्ये तत्र उदधौ हरिः ।पर्वत अग्रम् तु लोकात्मा हस्तेन आक्रम्य केशवः॥ ॥३०॥
देवानाम् मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः ।अथ वर्ष सहस्रेण आयुर्वेदमयः पुमान्॥ ॥३१॥
उदतिष्ठत् सुधर्मात्मा स दण्ड स कमण्दुलुः ।पूर्वम् धन्वन्तरिर् नाम अप्सराः च सु वर्चसः॥ ॥३२॥
अप्सु निर्मथनात् एव रसात् तस्मात् वर स्त्रियः ।उत्पेतुः मनुज श्रेष्ठ तस्मात् अप्सरसो अभवन्॥ ॥३३॥
षष्टिः कोट्यो अभवन् तासाम् अप्सराणाम् सुवर्चसाम् ।असंख्येयाः तु काकुत्स्थ याः तासाम् परिचारिकाः॥ ॥३४॥
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देव दानवाः ।अप्रतिग्रहणात् एव ता वै साधारणाः स्मृताः॥ ॥३५॥
वरुणस्य ततः कन्या वारुणी रघुनंदन ।उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ ॥३६॥
दितेः पुत्रा न ताम् राम जगृहुर् वरुण आत्मजाम् ।अदितेः तु सुता वीर जगृहुः ताम् अनिंदिताम्॥ ॥३७॥
असुराः तेन दैतेयाः सुराः तेन अदितेः सुताः ।हृष्टाः प्रमुदिताः च आसन् वारुणी ग्रहणात् सुराः॥ ॥३८॥
उच्चैःश्रवा हय श्रेष्ठो मणि रत्नम् च कौस्तुभम् ।उदतिष्ठन् नरश्रेष्ठ तथैव अमृतम् उत्तमम्॥ ॥३९॥
अथ तस्य कृते राम महान् आसीत् कुल क्षयः ।अदितेः तु ततः पुत्रा दितेः पुत्रान् असूदयन्॥ ॥४०॥
एकताम् अगमन् सर्वे असुरा राक्षसैः सह ।युद्धम् आसीत् महाघोरम् वीर त्रैलोक्य मोहनम्॥ ॥४१॥
यदा क्षयम् गतम् सर्वम् तदा विष्णुः महाबलः ।अमृतम् सः अहरत् तूर्णम् मायाम् आस्थाय मोहिनीम्॥ ॥४२॥
ये गता अभिमुखम् विष्णुम् अक्षरम् पुरुषोत्तमम् ।संपिष्टाः ते तदा युद्धे बिष्णुना प्रभ विष्णुना॥ ॥४३॥
अदितेः आत्मजा वीरा दितेः पुत्रान् निजघ्निरे ।अस्मिन् घोरे महायुद्धे दैतेया अदित्यायोः भृशम्॥ ॥४४॥
निहत्य दिति पुत्रान् तु राज्यम् प्राप्य पुरंदरः ।शशास मुदितो लोकान् स ऋषि संघान् स चारणान्॥ ॥४५॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 45

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0