Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
तस्य तत् वचनम् श्रुत्वा विश्वामित्रस्य धीमतः ।हृष्ट रोमा महातेजाः शताअनन्दो महातपाः॥ ॥१॥
गौतमस्य सुतो ज्येष्ठः तपसा द्योतित प्रभः ।राम संदर्शनात् एव परम् विस्मयम् आगतः॥ ॥२॥
एतौ निषण्णौ संप्रेक्ष्य सुख आसीनौ नृपात्मजौ ।शताअनंदो मुनिश्रेष्ठम् विश्वामित्रम् अथ अब्रवीत्॥ ॥३॥
अपि ते मुनि शार्दूल मम माता यशस्विनी ।दर्शिता राज पुत्राय तपो दीर्घम् उपागता॥ ॥४॥
अपि रामे महातेजो मम माता यशस्विनी ।वन्यैः उपाहरत् पूजाम् पूजा अर्हे सर्व देहिनाम्॥ ॥५॥
अपि रामाय कथितम् यथा वृत्तम् पुरातनम् ।मम मातुः महातेजो दैवेन दुरनुष्ठितम्॥ ॥६॥
अपि कौशिक भद्रम् ते गुरुणा मम संगता ।माता मम मुनिश्रेष्ठ राम संदर्शनात् इतः॥ ॥७॥
अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।इह आगतो महातेजाः पूजाम् प्राप्य महात्मनः॥ ॥८॥
अपि शांतेन मनसा गुरुः मे कुशिकात्मज ।इह आगतेन रामेण पूजितेन अभिवादितः॥ ॥९॥
तत् श्रुत्वा वचनम् तस्य विश्वामित्रो महामुनिः ।प्रति उवाच शतानंदम् वाक्यज्ञो वाक्य कोविदम्॥ ॥१०॥
न अतिक्रान्तम् मुनिश्रेष्ठ यत् कर्तव्यम् कृतम् मया ।संगता मुनिना पत्नी भार्गवेण इव रेणुका॥ ॥११॥
तत् श्रुत्वा वचनम् तस्य विश्वामित्रस्य धीमतः ।शतानंदो महातेजा रामम् वचनम् अब्रवीत्॥ ॥१२॥
स्वागतम् ते नरश्रेष्ठ दिष्ट्या प्राप्तो असि राघव ।विश्वामित्रम् पुरस्कृत्य महर्षिम् अपराजितम्॥ ॥१३॥
अचिन्त्य कर्मा तपसा ब्रह्मर्षिः अमित प्रभः ।विश्वामित्रो महातेजा - वेद्म्य - वेत्सि एनम् परमाम् गतिम्॥ ॥१४॥
न अस्ति धन्यतरो राम त्वत्तो अन्यो भुवि कश्चन ।गोप्ता कुशिक पुत्रः ते येन तप्तम् महत् तपः॥ ॥१५॥
श्रूयताम् च अभिधास्यामि कौशिकस्य महात्मनः ।यथा बलम् यथा तत्त्वम् तत् मे निगदतः शृणु॥ ॥१६॥
राजा अभूत् एष धर्मात्मा दीर्घ कालम् अरिन्दमः ।धर्मज्ञः कृत विद्यः च प्रजानाम् च हिते रतः॥ ॥१७॥
प्रजापति सुतः तु आसीत् कुशो नाम महीपतिः ।कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः॥ ॥१८॥
कुशनाभ सुतः तु आसीत् गाधिः इति एव विश्रुतः ।गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥ ॥१९॥
विश्वमित्रो महातेजाः पालयामास मेदिनीम् ।बहु वर्ष सहस्राणि राजा राज्यम् अकारयत्॥ ॥२०॥
कदाचित् तु महातेजा योजयित्वा वरूथिनीम् ।अक्षौहिणी परिवृतः परिचक्राम मेदिनीम्॥ ॥२१॥
नगराणि च राष्ट्रानि सरितः च तथा गिरीन् ।आश्रमान् क्रमशो राजा विचरन् आजगाम ह॥ ॥२२॥
वसिष्ठस्य आश्रम पदम् नाना पुष्प लता द्रुमम् ।नाना मृग गण आकीर्णम् सिद्ध चारण सेवितम्॥ ॥२३॥
देव दानव गन्धर्वैः किन्नरैः उपशोभितम् ।प्रशांत हरिण आकीर्णम् द्विज संघ निषेवितम्॥ ॥२४॥
ब्रह्म ऋषि गण संकीर्णम् देव ऋषि गण सेवितम् ।तपः चरण संसिद्धैः अग्नि कल्पैः महात्मभिः॥ ॥२५॥
सततम् संकुलम् श्रीमत् ब्रह्म कल्पैः महात्मभिः ।अब् भक्षैः वायु भक्षैः च शीर्ण पर्ण अशनैः तथा॥ ॥२६॥
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः - यद्वा -फल मूल अशनैः दान्तैः जित दोषैः जित इन्द्रियैः ।ऋषिभिः वालखिल्यैः च जप होम परायणैः॥ ॥२७॥
अन्यैः वैखानसैः चैव समंतात् उपशोभितम् ।वसिष्ठस्य आश्रम पदम् ब्रह्म लोकम् इव अपरम् ।ददर्श जयताम् श्रेष्ठ विश्वामित्रो महाबलः॥ ॥२८॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 51

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0