Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
तम् दृष्ट्वा परम प्रीतो विश्वामित्रो महाबलः ।प्रणतो विनयात् वीरो वसिष्ठम् जपताम् वरम्॥ ॥१॥
स्वागतम् तव च इति उक्तो वसिष्ठेन महात्मना ।आसनम् च अस्य भगवान् वसिष्ठो व्यादिदेश ह॥ ॥२॥
उपविष्टाय च तदा विश्वामित्राय धीमते ।यथा न्यायम् मुनि वरः फल मूलम् उपाहरत्॥ ॥३॥
प्रतिगृह्य तु ताम् पूजाम् वसिष्ठात् राज सत्तमः ।तपो अग्नि होत्र शिष्येषु कुशलम् पर्यपृच्छत॥ ॥४॥
विश्वामित्रो महातेजा वनस्पति गणे तथा ।सर्वत्र कुशलम् च आह वसिष्ठो राज सत्तमम्॥ ॥५॥
सुख उपविष्टम् राजानम् विश्वामित्रम् महातपाः ।पप्रच्छ जपताम् श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः॥ ॥६॥
कच्चित् ते कुशलम् राजन् कच्चित् धर्मेण रंजयन् ।प्रजाः पालयसे राजन् राज वृत्तेन धार्मिक॥ ॥७॥
कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने ।कच्चित् ते विजिताः सर्वे रिपवो रिपु सूदन॥ ॥८॥
कच्चित् बले च कोशे च मित्रेषु च परंतप ।कुशलम् ते नर व्याघ्र पुत्र पौत्रे तथा अनघ॥ ॥९॥
सर्वत्र कुशलम् राजा वसिष्ठम् प्रत्युदाहरत् ।विश्वामित्रो महातेजा वसिष्ठम् विनय अन्वितम्॥ ॥१०॥
कृत्वा तौ सुचिरम् कालम् धर्मिष्ठौ ताः कथाः तदा ।मुदा परमया युक्तौ प्रीयेताम् तौ परस्परम्॥ ॥११॥
ततो वसिष्ठो भगवान् कथा अन्ते रघुनंदन ।विश्वामित्रम् इदम् वाक्यम् उवाच प्रहसन् इव॥ ॥१२॥
आतिथ्यम् कर्तुम् इच्छामि बलस्य अस्य महाबल ।तव च एव अप्रमेयस्य यथा अर्हम् संप्रतीच्छ मे॥ ॥१३॥
सत्क्रियाम् तु भवान् एताम् प्रतीच्छतु मया कृताम् ।राजन् त्वम् अतिथि श्रेष्ठः पूजनीयः प्रयत्नतः॥ ॥१४॥
एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः ।कृतम् इति अब्रवीत् राजा पूजा वाक्येन मे त्वया॥ ॥१५॥
फल मूलेन भगवन् विद्यते यत् तव आश्रमे ।पाद्येन आचमनीयेन भगवद् दर्शनेन च॥ ॥१६॥
सर्वथा च महाप्राज्ञ पूजा अर्हेण सुपूजितः ।नमस्ते अस्तु गमिष्यामि मैत्रेण ईक्षस्व चक्षुषा॥ ॥१७॥
एवम् ब्रुवन्तम् राजानम् वसिष्ठः पुनः एव हि ।न्यमंत्रयत धर्मात्मा पुनः पुनः उदार धीः॥ ॥१८॥
बाढम् इति एव गाधेयो वसिष्ठम् प्रत्युवाच ह ।यथा प्रियम् भगवतः तथा अस्तु मुनि सत्तम॥ ॥१९॥
एवम् उक्तः तथा तेन वसिष्ठो जपताम् वरः ।आजुहाव ततः प्रीतः कल्माषीम् धूत कल्मषः॥ ॥२०॥
एहि एहि शबले क्षिप्रम् शृणु च अपि वचो मम ।सबलस्य अस्य राजर्षेः कर्तुम् व्यवसितो अस्मि अहम् ।भोजनेन महा अर्हेण सत्कारम् संविधत्स्व मे॥ ॥२१॥
यस्य यस्य यथा कामम् षड् रसेषु अभिपूजितम् ।तत् सर्वम् काम धुक् दिव्ये अभिवर्ष कृते मम॥ ॥२२॥
रसेन अन्नेन पानेन लेह्य चोष्येण संयुतम् ।अन्नानाम् निचयम् सर्वम् सृजस्व शबले त्वर॥ ॥२३॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 52

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0