Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः ।आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठ इति च अब्रवीत्॥ ॥१॥
ब्रह्मदण्डम् समुद्यम्य काल दण्डम् इव अपरम् ।वसिष्ठो भगवान् क्रोधात् इदम् वचनम् अब्रवीत्॥ ॥२॥
क्षत्र बन्धो स्थितो अस्मि एष यद् बलम् तद् विदर्शय ।नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज॥ ॥३॥
क्व च ते क्षत्रिय बलम् क्व च ब्रह्म बलम् महत् ।पश्य ब्रह्म बलम् दिव्यम् मम क्षत्रिय पांसन॥ ॥४॥
तस्य अस्त्रम् गाधि पुत्रस्य घोरम् आग्नेयम् उत्तमम् ।ब्रह्म दण्डेन तत् शांतम् अग्नेः वेग इव अंभसा॥ ॥५॥
वारुणम् चैव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा ।ऐषीकम् च अपि चिक्षेप रुषितो गाधि नंदनः॥ ॥६॥
मानवम् मोहनम् चैव गांधर्वम् स्वापनम् तथा ।जृंभणम् मदानम् चैव संतापन विलापने॥ ॥७॥
शोषणम् दारणम् चैव वज्रम् अस्त्रम् सुदुर्जयम् ।ब्रह्म पाशम् काल पाशम् वारुणम् पाशम् एव च॥ ॥८॥
पिनाकम् अस्त्रम् च दयितम् शुष्क आर्द्रे अशनी तथा ।दण्ड अस्त्रम् अथ पैशाचम् क्रौन्चम् अस्त्रम् तथैव च॥ ॥९॥
धर्म चक्रम् काल चक्रम् विष्णु चक्रम् तथैव च ।वायव्यम् मथनम् चैव अस्त्रम् हय शिरः तथा॥ ॥१०॥
शक्ति द्वयम् च चिक्षेप कंकालम् मुसलम् तथा ।वैद्याधरम् महाअस्त्रम् च कालास्त्रम् अथ दारुणम्॥ ॥११॥
त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कंकणम् ।एतानि अस्त्राणि चिक्षेप सर्वाणि रघु नंदन॥ ॥१२॥
वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् ।तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः॥ ॥१३॥
तेषु शांतेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधि नंदनः ।तत् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि पुरोगमाः॥ ॥१४॥
देव ऋषयः च संभ्रांता गंधर्वाः स महा उरगाः ।त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते॥ ॥१५॥
तत् अपि अस्त्रम् महाघोरम् ब्राह्मम् ब्राह्मेण तेजसा ।वसिष्ठो ग्रसते सर्वम् ब्रह्म दण्डेन राघव॥ ॥१६॥
ब्रह्म अस्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः ।त्रैलोक्य मोहनम् रौद्रम् रूपम् आसीत् सुदारुणम्॥ ॥१७॥
रोम कूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।मरीच्य इव निष्पेतुः अग्नेः धूम आकुल अर्चिषः॥ ॥१८॥
प्राज्वलत् ब्रह्म दण्डः च वसिष्ठस्य कर उद्यतः ।विधूम इव काल अग्निः यम दण्ड इव अपरः॥ ॥१९॥
ततो अस्तुवन् मुनि गणा वसिष्ठम् जपताम् वरम् ।अमोघम् ते बलम् ब्रह्मन् तेजो धारय तेजसा॥ ॥२०॥
निगृहीतः त्वया ब्रह्मन् विश्वामित्रो महातपाः ।प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत व्यथाः॥ ॥२१॥
एवम् उक्तो महातेजाः शमम् चक्रे महातपाः ।विश्वामित्रो अपि निकृतो विनिःश्वस्य इदम् अब्रवीत्॥ ॥२२॥
धिक् बलम् क्षत्रिय बलम् ब्रह्म तेजो बलम् बलम् ।एकेन ब्रह्म दण्डेन सर्व अस्त्राणि हतानि मे॥ ॥२३॥
तत् एतत् समवेक्ष्य अहम् प्रसन्न इन्द्रिय मानसः ।तपो महत् समास्थास्ये यत् वै ब्रह्मत्व कारणम्॥ ॥२४॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 56

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0