Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
ततः त्रिशंकोः वचनम् श्रुत्वा क्रोध समन्वितम् ।ऋषि पुत्र शतम् राम राजानम् इदम् अब्रवीत्॥ ॥१॥
प्रत्याख्यातो असि दुर्बुद्धे गुरुणा सत्य वादिना ।तम् कथम् समतिक्रम्य शाखा अन्तरम् उपेयिवान्॥ ॥२॥
इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।न च अतिक्रमितुम् शक्यम् वचनम् सत्य वादिनः॥ ॥३॥
अशक्यम् इति स उवाच वसिष्ठो भगवान् ऋषिः ।तम् वयम् वै समाहर्तुम् क्रतुम् शक्ताः कथंचन॥ ॥४॥
बालिशः त्वम् नर श्रेष्ठ गम्यताम् स्व पुरम् पुनः ।याजने भगवान् शक्तः त्रैलोक्यस्य अपि पार्थिव॥ ॥५॥
अवमानम् कथम् कर्तुम् तस्य शक्षायामहे वयम् ।तेषाम् तद् वचनम् श्रुत्वा क्रोध पर्याकुल अक्षरम्॥ ॥६॥
स राजा पुनः एव एतान् इदम् वचनम् अब्रवीत् ।प्रत्याख्यातो भगवता गुरु पुत्रैः तथैव हि॥ ॥७॥
अन्याम् गतिम् गमिष्यामि स्वस्ति वो अस्तु तपो धनाः ।ऋषि पुत्राः तु तत् श्रुत्वा वाक्यम् घोर अभिसंहितम्॥ ॥८॥
शेपुः परम संक्रुद्धाः चण्डालत्वम् गमिष्यसि ।इति उक्त्वा ते महात्मानो विविशुः स्वम् स्वम् आश्रमम्॥ ॥९॥
अथ रात्र्याम् व्यतीतायाम् राजा चण्डालताम् गतः ।नील वस्त्र धरो नीलः परुषो ध्वस्त मूर्धजः॥ ॥१०॥
चित्य माल्य अनुलेपः च आयस आभरणो अभवत् ।तम् दृष्ट्वा मंत्रिणः सर्वे त्यज्य चण्डाल रूपिणम्॥ ॥११॥
प्राद्रवन् सहिता राम पौरा ये अस्य अनुगामिनः ।एको हि राजा काकुत्स्थ जगाम परम आत्मवान्॥ ॥१२॥
दह्यमानो दिवा रात्रम् विश्वामित्रम् तपो धनम् ।विश्वामित्रः तु तम् दृष्ट्वा राजानम् विफली कृतम्॥ ॥१३॥
चण्डाल रूपिणम् राम मुनिः कारुण्यम् आगतः ।कारुण्यात् स महातेजा वाक्यम् परम धार्मिकः॥ ॥१४॥
इदम् जगाद भद्रम् ते राजानम् घोर दर्शनम् ।किम् आगमन कार्यम् ते राजपुत्र महाबल॥ ॥१५॥
अयोध्या अधिपते वीर शापात् चण्डालताम् गतः ।अथ तत् वाक्यम् आकर्ण्य राजा चण्डालताम् गतः॥ ॥१६॥
अब्रवीत् प्रांजलिः वाक्यम् वाक्यज्ञो वाक्य कोविदम् ।प्रत्याख्यातो अस्मि गुरुणा गुरु पुत्रैः तथा एव च॥ ॥१७॥
अनवाप्य एव तम् कामम् मया प्राप्तो विपर्ययः ।स शरीरो दिवम् यायामि इति मे सौम्य दर्शन॥ ॥१८॥
मया च इष्टम् क्रतु शतम् तत् च न अवाप्यते फलम् ।अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन॥ ॥१९॥
कृच्छ्रेषु अपि गतः सौम्य क्षत्र धर्मेण ते शपे ।यज्ञैः बहु विधैः इष्टम् प्रजा धर्मेण पालिताः॥ ॥२०॥
गुरवः च महात्मानः शील वृत्तेन तोषिताः ।धर्मे प्रयतमानस्य यज्ञम् च आहर्तुम् इच्छतः॥ ॥२१॥
परितोषम् न गच्छन्ति गुरवो मुनिपुंगव ।दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम्॥ ॥२२॥
दैवेन आक्रम्यते सर्वम् दैवम् हि परमा गतिः ।तस्य मे परम आर्तस्य प्रसादम् अभिकांक्षतः ।कर्तुम् अर्हसि भद्रम् ते दैव उपहत कर्मणः॥ ॥२३॥
न अन्याम् गतिम् गमिष्यामि न अन्यः शरणम् अस्ति मे ।दैवम् पुरुष कारेण निवर्तयितुम् अर्हसि॥ ॥२४॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 57

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0