Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
उक्त वाक्यम् तु राजानम् कृपया कुशिक आत्मजः ।अब्रवीत् मधुरम् वाक्यम् साक्षात् चण्डालताम् गतम्॥ ॥१॥
इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सुधार्मिकम् ।शरणम् ते भविष्यामि मा भैषीः नृप पुंगव॥ ॥२॥
अहम् आमंत्रये सर्वान् महर्षीन् पुण्य कर्मणः ।यज्ञ साह्य करान् राजन् ततो यक्ष्यसि निर्वृतः॥ ॥३॥
गुरु शाप कृतम् रूपम् यत् इदम् त्वयि वर्तते ।अनेन सह रूपेण स शरीरो गमिष्यसि॥ ॥४॥
हस्त प्राप्तम् अहम् मन्ये स्वर्गम् तव नरेश्वर ।यः त्वम् कौशिकम् आगम्य शरण्यम् शरणागतः॥ ॥५॥
एवम् उक्त्वा महातेजाः पुत्रान् परम धार्मिकान् ।व्यादिदेश महाप्राज्ञान् यज्ञ संभार कारणात्॥ ॥६॥
सर्वान् शिष्यान् समाहूय वाक्यम् एतत् उवाच ह ।सर्वान् ऋषि वरान् वशिष्ठान् आनयध्वम् मम आज्ञया॥ ॥७॥
स शिष्यान् सुहृदः चैव स ऋत्विजः सुबहु श्रुतान् ।यत् अन्यो वचनम् ब्रूयात् मत् वाक्य बल चोदितः॥ ॥८॥
तत् सर्वम् अखिलेन उक्तम् मम आख्येयम् अनादृतम् ।तस्य तत् वचनम् श्रुत्वा दिशो जग्मुः तत् आज्ञया॥ ॥९॥
आजग्मुः अथ देशेभ्यः सर्वेभ्यो ब्रह्म वादिनः ।ते च शिष्याः समागम्य मुनिम् ज्वलित तेजसम्॥ ॥१०॥
ऊचुः च वचनम् सर्वे सर्वेषाम् ब्रह्म वादिनाम् ।श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः॥ ॥११॥
सर्व देशेषु च अगच्छन् वर्जयित्वा महाउदयम् ।वासिष्ठम् तत् शतम् सर्वम् क्रोध पर्याकुल अक्षरम्॥ ॥१२॥
यथा आह वचनम् सर्वम् शृणु त्वम् मुनि पुंगव ।क्षत्रियो याजको यस्य चण्डालस्य विशेषतः॥ ॥१३॥
कथम् सदसि भोक्तारो हविः तस्य सुर ऋषयः ।ब्राह्मणा वा महात्मानो भुक्त्वा चण्डाल भोजनम्॥ ॥१४॥
कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः ।एतत् वचनम् नैष्ठुर्यम् ऊचुः संरक्त लोचनाः॥ ॥१५॥
वासिष्ठा मुनि शार्दूल सर्वे सह महोदयाः ।तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि पुंगवः॥ ॥१६॥
क्रोध संरक्त नयनः स रोषम् इदम् अब्रवीत् ।यत् दूषयन्ति अदुष्टम् माम् तप उग्रम् संआस्थितम्॥ ॥१७॥
भस्मी भूता दुरात्मानो भविष्यन्ति न संशयः ।अद्य ते काल पाशेन नीता वैवस्तव क्षयम्॥ ॥१८॥
सप्त जाति शतानि एव मृतपाः सन्तु सर्वशः ।श्व मांस नियत आहारा मुष्टिका नाम निर्घृणाः॥ ॥१९॥
विकृताः च विरूपाः च लोकान् अनुचरन्तु इमान् ।महोदयः च दुर्बुद्धिः माम् अदूष्यम् हि अदूषयत्॥ ॥२०॥
दूषितः सर्व लोकेषु निषादत्वम् गमिष्यति ।प्राण अतिपात निरतो निरनुक्रोशताम् गतः॥ ॥२१॥
दीर्घ कालम् मम क्रोधात् दुर्गतिम् वर्तयिष्यति ।एतावत् उक्त्वा वचनम् विश्वामित्रो महातपाः ।विरराम महातेजा ऋषि मध्ये महामुनिः॥ ॥२२॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 59

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0