Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
पूर्णे वर्ष सहस्रे तु व्रत स्नातम् महामुनिम् ।अभ्यागच्चन् सुराः सर्वे तपः फल चिकीर्षवः॥ ॥१॥
अब्रवीत् सु महातेजा ब्रह्मा सु रुचिरम् वचः ।ऋषिः त्वम् असि भद्रम् ते स्व अर्जितैः कर्मभिः शुभैः॥ ॥२॥
तम् एवम् उक्त्वा देवेशः त्रिदिवम् पुनः अभ्यगात् ।विश्वामित्रो महातेजा भूयः तेपे महत् तपः॥ ॥३॥
ततः कालेन महता मेनका परम अप्सराः ।पुष्करेषु नर श्रेष्ठ स्नातुम् समुपचक्रमे॥ ॥४॥
ताम् ददर्श महातेजा मेनकाम् कुशिक आत्मजः ।रूपेण अप्रतिमाम् तत्र विद्युतम् जलदे यथा॥ ॥५॥
दृष्ट्वा कन्दर्प वशगो मुनिः ताम् इदम् अब्रवीत् ।अप्सरः स्वागतम् ते अस्तु वस च इह मम आश्रमे॥ ॥६॥
अनुगृह्णीष्व भद्रम् ते मदनेन सु मोहितम् ।इति उक्ता सा वरारोहा तत्र वासम् अथ अकरोत्॥ ॥७॥
तपसो हि महाविघ्नो विश्वामित्रम् उपागतम् ।तस्याम् वसन्त्याम् वर्षाणि पंच पंच च राघव॥ ॥८॥
विश्वामित्र आश्रमे सौम्य सुखेन व्यतिचक्रमुः ।अथ काले गते तस्मिन् विश्वामित्रो महामुनिः॥ ॥९॥
स व्रीड इव संवृत्तः चिन्ता शोक परायणः ।बुद्धिर् मुनेः समुत्पन्ना स अमर्षा रघुनंदन॥ ॥१०॥
सर्वम् सुराणाम् कर्म एतत् तपो अपहरणम् महत् ।अहो रात्रा अपदेशेन गताः संवत्सरा दश॥ ॥११॥
काम मोह अभिभूतस्य विघ्नो अयम् प्रत्युपस्थितः ।स विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः॥ ॥१२॥
भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्रांजलिम् स्थिताम् ।मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक आत्मजः॥ ॥१३॥
उत्तरम् पर्वतम् राम विश्वामित्रो जगाम ह ।स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु कामो महायशाः॥ ॥१४॥
कौशिकी तीरम् आसाद्य तपः तेपे दुरासदम् ।तस्य वर्ष सहस्राणि घोरम् तप उपासतः॥ ॥१५॥
उत्तरे पर्वते राम देवतानाम् अभूत् भयम् ।अमंत्रयन् समागम्य सर्वे स ऋषि गणाः सुराः॥ ॥१६॥
महर्षि शब्दम् लभताम् साधु अयम् कुशिक आत्मजः ।देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः॥ ॥१७॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।महर्षे स्वागतम् वत्स तपसा उग्रेण तोषितः॥ ॥१८॥
महत्त्वम् ऋषि मुख्यत्वम् ददामि तव कौशिक ।ब्रह्मणः स वचः श्रुत्वा विश्वामित्रः तपो धनः॥ ॥१९॥
प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।ब्रह्मर्षि शब्दम् अतुलम् स्व अर्जितैः कर्मभिः शुभैः॥ ॥२०॥
यदि मे भगवान् आह ततो अहम् विजित इन्द्रियः ।तम् उवाच ततो ब्रह्मा न तावत् त्वम् जित इन्द्रियः॥ ॥२१॥
यतस्व मुनि शार्दूल इति उक्त्वा त्रिदिवम् गतः ।विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः॥ ॥२२॥
ऊर्ध्व बाहुः निरालंबो वायु भक्षः तपः चरन् ।धर्मे पंच तपा भूत्वा वर्षासु आकाश संश्रयः॥ ॥२३॥
शिशिरे सलिले शायी रात्रि अहानि तपो धनः ।एवम् वर्ष सहस्रम् हि तपो घोरम् उपागमत्॥ ॥२४॥
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।संतापः सुमहान् आसीत् सुराणाम् वासवस्य च॥ ॥२५॥
रंभाम् अप्सरसम् शक्रः सह सर्वैः मरुत् गणैः ।उवाच आत्म हितम् वाक्यम् अहितम् कौशिकस्य च॥ ॥२६॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 63

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0