Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
ततो रात्र्याम् व्यतीतायाम् स उपाध्यायः स बान्धवः ।राजा दशरथो हृष्टः सुमंत्रम् इदम् अब्रवीत्॥ ॥१॥
अद्य सर्वे धन अध्यक्षा धनम् आदाय पुष्कलम् ।व्रजंति अग्रे सु विहिता नाना रत्न समन्विताः॥ ॥२॥
चतुरंग बलम् च अपि शीघ्रम् निर्यातु सर्वशः ।मम आज्ञा समकालम् च यानम् युग्मम् अनुत्तमम्॥ ॥३॥
वसिष्ठो वामदेवः च जाबालिः अथ काश्यपः ।मार्कण्डेयः च दीर्घायुः ऋषिः कात्यायनः तथा॥ ॥४॥
एते द्विजाः प्रयान्तु अग्रे स्यंदनम् योजयस्व मे ।यथा काल अत्ययो न स्यात् दूता हि त्वरयन्ति माम्॥ ॥५॥
वचनात् च नरेन्द्रस्य सेना च चतुरंगिणी ।राजानम् ऋषिभिः सार्धम् व्रजंतम् पृष्ठतो अन्वगात्॥ ॥६॥
गत्वा चतुर् अहम् मार्गम् विदेहान् अभ्युपेयिवान् ।राजा तु जनकः श्रीमान् श्रुत्वा पूजाम् अकल्पयत्॥ ॥७॥
ततो राजानम् आसाद्य वृद्धम् दशरथम् नृपम् ।जनको मुदितो राजा हर्षम् च परमम् ययौ॥ ॥८॥
उवाच वचनम् श्रेष्ठो नरश्रेष्ठम् मुदा अन्वितम् ।स्वागतम् ते नरश्रेष्ठः दिष्ट्या प्राप्तो असि राघव॥ ॥९॥
पुत्रयोः उभयोः प्रीतिम् लप्स्यसे वीर्य निर्जिताम् ।दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः॥ ॥१०॥
सह सर्वैः द्विज श्रेष्ठैः देवैः इव शतक्रतुः ।दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितम् कुलम्॥ ॥११॥
राघवैः सह संबंधात् वीर्य श्रेष्ठैः महात्मभिः ।श्वः प्रभाते नरेन्द्र त्वम् सम्वर्तयितुम् अर्हसि॥ ॥१२॥
यज्ञस्य अन्ते नरश्रेष्ठ विवाहम् ऋषि सत्तमैः ।तस्य तत् वचनम् श्रुत्वा ऋषि मध्ये नराधिपः॥ ॥१३॥
वाक्यम् वाक्यविदाम् श्रेष्ठः प्रत्युवाच महीपतिम् ।प्रतिग्रहो दातृ वशः श्रुतम् एतत् मया पुरा॥ ॥१४॥
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् ।तत् धर्मिष्ठम् यशस्यम् च वचनम् सत्य वादिनः॥ ॥१५॥
श्रुत्वा विदेह अधिपतिः परम् विस्मयम् आगतः ।ततः सर्वे मुनि गणाः परस्पर समागमे॥ ॥१६॥
हर्षेण महता युक्ताः ताम् निशाम् अवसन् सुखम् ।अथ रामो महातेजा लक्ष्मणेन समम् ययौ॥ ॥१७॥
विश्वामित्रम् पुरस्कृत्य पितुः पादौ उपस्पृशन् ।राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः॥ ॥१८॥
उवास परम प्रीतो जनकेन सुपूजितः ।जनको अपि महातेजाः क्रिया धर्मेण तत्त्ववित् ।यज्ञस्य च सुताभ्याम् च कृत्वा रात्रिम् उवास ह॥ ॥१९॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 69

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0