Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः॥ ॥१॥
अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः॥ ॥२॥
धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित्॥ ॥३॥
ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे॥ ॥४॥
सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः॥ ॥५॥
एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः॥ ॥६॥
श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः॥ ॥७॥
तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः॥ ॥८॥
तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम्॥ ॥९॥
कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि॥ ॥१०॥
कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम्॥ ॥११॥
वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम्॥ ॥१२॥
ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम्॥ ॥१३॥
शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित्॥ ॥१४॥
कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत्॥ ॥१५॥
सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा॥ ॥१६॥
गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः॥ ॥१७॥
अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः॥ ॥१८॥
मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः॥ ॥१९॥
ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम्॥ ॥२०॥
अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन्॥ ॥२१॥
विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम्॥ ॥२२॥
न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।स शशास जगत् राजा दिवि देव पतिर् यथा॥ ॥२३॥
तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः॥ ॥२४॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 7

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0