Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
यस्मिन् तु दिवसे राजा चक्रे गो दानम् उत्तमम् ।तस्मिन् तु दिवसे शूरो युधाजित् समुपेयिवान्॥ ॥१॥
पुत्रः केकय राजस्य साक्षात् भरत मातुलः ।दृष्ट्वा पृष्ट्वा च कुशलम् राजानम् इदम् अब्रवीत्॥ ॥२॥
केकय अधिपती राजा स्नेहात् कुशलम् अब्रवीत् ।येषाम् कुशलकामो असि तेषाम् संप्रति अनामयम्॥ ॥३॥
स्वस्रीयम् मम राजेन्द्र द्रष्टु कामो महीपतिः ।तत् अर्थम् उपयातो अहम् अयोध्याम् रघुनंदन॥ ॥४॥
श्रुत्वा तु अहम् अयोध्यायाम् विवाह अर्थम् तव आत्मजान् ।मिथिलाम् उपयातान् तु त्वया सह महीपते॥ ॥५॥
त्वरया अभुपयातो अहम् द्रष्टु कामः स्वसुः सुतम् ।अथ राजा दशरथः प्रिय अतिथिम् उपस्थितम्॥ ॥६॥
दृष्ट्वा परम सत्कारैः पूजार्हम् समपूजयत् ।ततः ताम् उषितो रात्रिम् सह पुत्रैः महात्मभिः॥ ॥७॥
प्रभाते पुनः उत्थाय कृत्वा कर्माणि तत्त्ववित् ।ऋषीन् तदा पुरस्कृत्य यज्ञ वाटम् उपागमत्॥ ॥८॥
युक्ते मुहूर्ते विजये सर्व आभरण भूषितैः ।भ्रातृभिः सहितो रामः कृत कौतुक मंगलः॥ ॥९॥
वसिष्ठम् पुरतः कृत्वा महर्षीन् अपरान् अपि ।वशिष्टःओ भगवान् एत्य वैदेहम् इदम् अब्रवीत्॥ ॥१०॥
राजा दशरथो राजन् कृत कौतुक मन्गलैः ।पुत्रैः नर वर श्रेष्ठ दातारम् अभिकांक्षते॥ ॥११॥
दातृ प्रतिग्रहीतृभ्याम् सर्व अर्थाः संभवन्ति हि ।स्वधर्मम् प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम्॥ ॥१२॥
इति उक्तः परम उदारो वसिष्ठेन महात्मना ।प्रत्युवाच महातेजा वाक्यम् परम धर्मवित्॥ ॥१३॥
कः स्थितः प्रतिहारो मे कस्य आज्ञा संप्रतीक्ष्यते ।स्व गृहे को विचारो अस्ति यथा राज्यम् इदम् तव॥ ॥१४॥
कृत कौतुक सर्वस्वा वेदि मूलम् उपागताः ।मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेः इव अर्चिषः॥ ॥१५॥
सद्यो अहम् त्वत् प्रतीक्षो अस्मि वेद्याम् अस्याम् प्रतिषितः ।अविघ्नम् कुरुताम् राजा किम् अर्थम् हि विलम्ब्यते॥ ॥१६॥
तत् वाक्यम् जनकेन उक्तम् श्रुत्वा दशरथः तदा ।प्रवेशयामास सुतान् सर्वान् ऋषि गणान् अपि॥ ॥१७॥
ततो राजा विदेहानाम् वशिष्ठम् इदम् अब्रवीत् ।कारयस्व ऋषे सर्वान् ऋषिभिः सह धार्मिक॥ ॥१८॥
रामस्य लोक रामस्य क्रियाम् वैवाहिकीम् प्रभो ।तथा इति उक्त्वा तु जनकम् वशिष्टःओ भगवान् ऋषिः॥ ॥१९॥
विश्वामित्रम् पुरस्कृत्य शतानंदम् च धार्मिकम् ।प्रपा मध्ये तु विधिवत् वेदीम् कृत्वा महातपाः॥ ॥२०॥
अलम् चकार ताम् वेदीम् गन्ध पुष्पैः समंततः ।सुवर्ण पालिकाभिः च चित्र कुम्भैः च स अंकुरैः॥ ॥२१॥
अंकुर आढ्यैः शरावैः च धूप पात्रैः स धूपकैः ।शंख पात्रैः श्रुवैः स्रुग्भिः पात्रैः अर्घ्यादि पूजितैः॥ ॥२२॥
लाज पूर्णैः च पात्रीभिः रक्षितैः अपि संस्कृतैः ।दर्भैः समैः समास्तीर्य विधिवत् मंत्र पुरस्कृतम्॥ ॥२३॥
अग्निम् आधाय तम् वेद्याम् विधि मंत्र पूर्वकम् ।जुहाव अग्नौ महातेजा वशिष्ठो मुनिपुंगव॥ ॥२४॥
ततः सीताम् समानीय सर्व आभरण भुषिताम् ।समक्षम् अग्नेः संस्थाप्य राघव अभिमुखे तदा॥ ॥२५॥
अब्रवीत् जनको राजा कौसल्य आनंद वर्धनम् ।इयम् सीता मम सुता सह धर्म चरी तव॥ ॥२६॥
प्रतीच्छ च एनाम् भद्रम् ते पाणिम् गृह्णीष्व पाणिना ।पतिव्रता महभागा छाय इव अनुगता सदा॥ ॥२७॥
इति उक्त्वा प्राक्षिपत् राजा मंत्र पूतम् जलम् तदा ।साधु साधु इति देवानाम् ऋषीणाम् वदताम् तदा॥ ॥२८॥
देव दुंदुभि निर्घोषः पुष्प वर्षम् महान् अभूत् ।एवम् दत्त्वा सुताम् सीताम् मंत्र उदक पुरस्कृताम्॥ ॥२९॥
अब्रवीत् जनको राजा हर्षेण अभिपरिप्लुत ।लक्ष्मण आगच्छ भद्रम् ते ऊर्मिलाम् उद्यताम् मया॥ ॥३०॥
प्रतीच्छ पाणिम् गृह्णीष्व मा भूत् कालस्य पर्ययः ।तम् एवम् उक्त्वा जनको भरतम् च अभ्यभाषत॥ ॥३१॥
गृहाण पाणिम् माण्डव्याः पाणिना रघुनंदन ।शत्रुघ्नम् च अपि धर्माअत्मा अब्रवीत् मिथिलेश्वरः॥ ॥३२॥
श्रुतकीर्तेः महाबाहो पाणिम् गृह्णीष्व पाणिना ।सर्वे भवन्तः सौम्याः च सर्वे सुचरित व्रताः॥ ॥३३॥
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः ।जनकस्य वचः श्रुत्वा पाणीन् पाणिभिः अस्पृशन्॥ ॥३४॥
चत्वारः ते चतसॄणाम् वसिष्ठस्य मते स्थिताः ।अग्निम् प्रदक्षिणम् कृत्वा वेदिम् राजानम् एव च॥ ॥३५॥
ऋषीन् चैव महात्मानः सह भार्या रघु उद्वहाः ।यथा उक्तेन तथा चक्रुः विवाहम् विधि पूर्वकम्॥ ॥३६॥
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः।यद्वा -पुष्प वृष्टिः महति आसीत् अंतरिक्षात् सु भास्वरा ।दिव्य दुन्दुभि निर्घोषैः गीत वादित्र निःस्वनैः॥ ॥३७॥
ननृतुः च अप्सरः संघा गन्धर्वाः च जगुः कलम् ।विवाहे रघु मुख्यानाम् तद् अद्भुतम् अदृश्यत॥ ॥३८॥
ईदृशे वर्तमाने तु तूर्य उद्घुष्ट निनादिते ।त्रिः अग्निम् ते परिक्रम्य ऊहुः भार्या महौजसः॥ ॥३९॥
अथ उपकार्याम् जग्मुः ते स दारा रघुनंदनाः ।राजा अपि अनुययौ पश्यन् स ऋषि संघः स बान्धवः॥ ॥४०॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 73

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0