Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
तस्य च एवम् प्रभावस्य धर्मज्ञस्य महात्मनः ।सुतार्थम् तप्य मानस्य न असीत् वंशकरः सुतः॥ ॥१॥
चिन्तयानस्य तस्य एवम् बुद्धिः आसीन् महात्मनः ।सुतार्थम् वाजिमेधेन किम् अर्थम् न यजामि अहम्॥ ॥२॥
स निश्चिताम् मतिम् कृत्वा यष्टव्यम् इति बुद्धिमान् ।मंत्रिभिः सह धर्मात्मा सर्वैः अपि कृत आत्मभिः॥ ॥३॥
ततोऽब्रवीत् महातेजाः सुमंत्रम् मंत्रि सत्तमम् ।शीघ्रम् आनय मे सर्वान् गुरून् तान् स पुरोहितान्॥ ॥४॥
ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ।सम् आनयत् स तान् सर्वान् समस्तान् वेद पारगान्॥ ॥५॥
सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ।पुरोहितम् वशिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः॥ ॥६॥
तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ।इदम् धर्म अर्थ सहितम् श्लक्ष्णम् वचनम् अब्रवीत्॥ ॥७॥
मम लालस्य मानस्य सुतार्थम् नास्ति वै सुखम् ।तदर्थम् हयमेधेन यक्ष्ह्यामि इति मतिर् मम॥ ॥८॥
तत् अहम् यष्टुम् इच्छमि शास्त्र दृष्टेन कर्मणा ।कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम्॥ ॥९॥
ततः साधु इति तद्वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ।वशिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखेरितम्॥ ॥१०॥
ऊचुः च परम प्रीताः सर्वे दशरथम् वचः ।संभाराः संभ्रियंताम् ते तुरगः च विमुच्यताम्॥ ॥११॥
सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ।सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतान् च पार्थिव॥ ॥१२॥
यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ।ततः तुष्टोऽभवत् राजा श्रुत्वा तद् द्विज भाषितम्॥ ॥१३॥
अमात्यान् अब्रवीत् राजा हर्ष पर्याकुल लोचन ।संभाराः संभ्रियंताम् मे गुरूणाम् वचनात् इह॥ ॥१४॥
समर्थ अधिष्ठितः च अश्वः सः उपाध्यायो विमुच्यताम् ।सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम्॥ ॥१५॥
शान्तयः च अपि वर्धन्ताम् यथा कल्पम् यथा विधि ।शक्यः प्राप्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता॥ ॥१६॥
न अपराथो भवेत् कष्टो यदि अस्मिन् क्रतु सत्तमे ।च्छिद्रम् हि मृगयन्ते स्म विद्वांसो ब्रह्म राक्षसाः॥ ॥१७॥
विधि हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।तद्यथा विधि पूर्वम् मे क्रतुरेष समाप्यते॥ ॥१८॥
तथा विधानम् क्रियताम् समर्थाः साधनेषु इति ।तथा इति च अब्रुवन् सर्वे मंत्रिणः प्रतिपूजिता॥ ॥१९॥
पार्थिवेन्द्रस्य तद् वाक्यम् यथा पूर्वम् निशम्य ते ।तथा द्विजाः ते धर्मज्ञा वर्थयतो नृपोत्तमम्॥ ॥२०॥
अनुज्ञाताः ततः सर्वे पुनर् जग्मुर् यथा आगतम् ।विसर्जयित्वा तान् विप्रान् सचिवान् इदम् अब्रवीत्॥ ॥२१॥
ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुर् आप्यताम् ।इति उक्त्वा नृप शार्दूलः सचिवान् समुपस्थितान्॥ ॥२२॥
विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ।ततः स गत्वा ताः पत्नीर् नरेन्द्रो हृदयंगमाः॥ ॥२३॥
उवाच दीक्षाम् विशत यक्षेऽहम् सुत कारणात् ।तासाम् तेन अति कान्तेन वचनेन सुवर्चसाम् ।मुख पद्मान् अशोभन्त पद्मानीव हिमात्यये॥ ॥२४॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 8

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0