Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Ayodhya Kanda
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।उवाच भरतश्चित्रं धार्मिको धार्मिकं वच:॥ ॥१॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत्॥ ॥२॥
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्॥ ॥३॥
यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स:॥ ॥४॥
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।स एवं व्यसनं प्राप्य न विषीदितुमर्हति॥ ॥५॥
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: ।सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव॥ ॥६॥
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।अविषह्यतमं दु:खमासादयितुमर्हति॥ ॥७॥
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम॥ ॥८॥
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम्॥ ॥९॥
कथं दशरथाज्जात: शुद्धाभिजनकर्मण: ।जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम्॥ ॥१०॥
गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च ।तातं न परिगर्हेयं दैवतं चेति संसदि॥ ॥११॥
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित्॥ ॥१२॥
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: ।राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता॥ ॥१३॥
साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् ।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्॥ ॥१४॥
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम्॥ ॥१५॥
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: ।अभिपत्ता कृतं कर्म लोके धीरविगर्हितम्॥ ॥१६॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: ।पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान्॥ ॥१७॥
क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् ।ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति॥ ॥१८॥
एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् ।येन शक्यं महाप्राज्ञ प्रजानां परिपालनम्॥ ॥१९॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम्॥ ॥२०॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि॥ ॥२१॥
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि॥ ॥२२॥
श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् ।स कथं पालयिष्यामि भूमिं भवति तिष्ठति॥ ॥२३॥
हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् ।भवता च विनाभूतो न वर्त्तयितुमुत्सहे॥ ॥२४॥
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै:॥ ॥२५॥
इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह ।ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा:॥ ॥२६॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।विजित्य तरसा लोकान् मरुद्भिरिव वासव:॥ ॥२७॥
ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् ।सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम्॥ ॥२८॥
अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने ।अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश॥ ॥२९॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात्॥ ॥३०॥
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर:॥ ॥३१॥
अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: ।गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम्॥ ॥३२॥
तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: ।न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित:॥ ॥३३॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: ।न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित:॥ ॥३४॥
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: ।तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह॥ ॥३५॥
End of chapter ॥
1
Valmiki Ramayana · Ayodhya Kanda

Sarga 106

0
Sarga 106Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0