Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Ayodhya Kanda
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: ।प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत:॥ ॥१॥
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: ।जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात्॥ ॥२॥
पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् ।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्॥ ॥३॥
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: ।सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु:॥ ॥४॥
तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी ।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी॥ ॥५॥
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ॥ ॥६॥
तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ ।चतुर्दश वने वासं वर्षाणि वरदानिकम्॥ ॥७॥
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: ।सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु:॥ ॥८॥
भवानपि तथेत्येव पितरं सत्यवादिनम् ।कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात्॥ ॥९॥
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।पितरं चापि धर्मज्ञं मातरं चाभिनन्दय॥ ॥१०॥
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।गयेन यजमानेन गयेष्वेव पितऽन् प्रति॥ ॥११॥
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: ।तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत:॥ ॥१२॥
एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: ।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत्॥ ॥१३॥
एवं राजर्षय: सर्वे प्रतीता राजनन्दन ।तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो॥ ॥१४॥
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि:॥ ॥१५॥
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च॥ ॥१६॥
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये॥ ॥१७॥
छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये॥ ॥१८॥
शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् ।चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम्॥ ॥१९॥
End of chapter ॥
1
Valmiki Ramayana · Ayodhya Kanda

Sarga 107

0
Sarga 107Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0