Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Ayodhya Kanda
जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया॥ ॥१॥
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम्॥ ॥२॥
निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।मानं न लभते सत्सु भिन्नचारित्रदर्शन:॥ ॥३॥
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम्॥ ॥४॥
अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव॥ ॥५॥
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्॥ ॥६॥
कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्॥ ॥७॥
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया॥ ॥८॥
कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा:॥ ॥९॥
सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित:॥ ॥१०॥
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम्॥ ॥११॥
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते॥ ॥१२॥
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्॥ ॥१३॥
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत्॥ ॥१४॥
एक: पालयते लोकमेक: पालयते कुलम् ।मज्जत्येको हि निरय एक: स्वर्गे महीयते॥ ॥१५॥
सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत:॥ ॥१६॥
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव:॥ ॥१७॥
असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम्॥ ॥१८॥
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते॥ ॥१९॥
क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि:॥ ॥२०॥
कायेन कुरुते पापं मनसा सम्प्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम्॥ ॥२१॥
भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत्॥ ॥२२॥
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह॥ ॥२३॥
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वच:॥ ॥२४॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा॥ ॥२५॥
वनवासं वसन्नेवं शुचिर्नियतभोजन: ।मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन्॥ ॥२६॥
सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण:॥ ॥२७॥
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन:॥ ॥२८॥
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।तपांस्युग्राणि चास्थाय दिवं याता महर्षय:॥ ॥२९॥
अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य॥ ॥३०॥
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त:॥ ॥३१॥
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता:॥ ॥३२॥
निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्॥ ॥३३॥
यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात्॥ ॥३४॥
त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च॥ ॥३५॥
धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना:॥ ॥३६॥
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र:॥ ॥३७॥
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥ ॥३८॥
स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम्॥ ॥३९॥
End of chapter ॥
1
Valmiki Ramayana · Ayodhya Kanda

Sarga 109

0
Sarga 109Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0