Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Ayodhya Kanda
प्रतिप्रयाते भरते वसन् रामस्तपोवने ।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम्॥ ॥१॥
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।राममाश्रित्य निरतास्तानलक्षयदुत्सुकान्॥ ॥२॥
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा:॥ ॥३॥
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत:॥ ॥४॥
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।दृश्यते विकृतं येन विक्रियन्ते तपस्विन:॥ ॥५॥
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन:॥ ॥६॥
कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते॥ ॥७॥
अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।वेपमान इवोवाच रामं भूतदयापरम्॥ ॥८॥
कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।चलनं तात वैदेह्यास्तपस्विषु विशेषत:॥ ॥९॥
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा:॥ ॥१०॥
रावणावरज: कश्चित् खरो नामेह राक्षस: ।उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान्॥ ॥११॥
धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते॥ ॥१२॥
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्॥ ॥१३॥
दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै:॥ ॥१४॥
अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता:॥ ॥१५॥
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस:॥ ॥१६॥
अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते॥ ॥१७॥
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम्॥ ॥१८॥
तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम्॥ ॥१९॥
बहुमूलफलं चित्रमविदूरादितो वनम् ।पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन:॥ ॥२०॥
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते॥ ॥२१॥
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।समर्थस्यापि वसतो वासो दु:खमिहाद्य ते॥ ॥२२॥
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक:॥ ॥२३॥
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह॥ ॥२४॥
राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे॥ ॥२५॥
आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा:॥ ॥२६॥
End of chapter ॥
1
Valmiki Ramayana · Ayodhya Kanda

Sarga 116

0
Sarga 116Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0