Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Ayodhya Kanda
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा॥ ॥१॥
इह मे भरतो दृष्टो मातरश्च सनागरा: ।सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत:॥ ॥२॥
स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम्॥ ॥३॥
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत:॥ ॥४॥
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत॥ ॥५॥
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।सौमित्रिं च महाभागां सीतां च समसान्त्वयत्॥ ॥६॥
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत:॥ ॥७॥
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।रामाय चाचचक्षे तां तापसीं धर्मचारिणीम्॥ ॥८॥
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता॥ ॥९॥
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।दशवर्षसहस्राणि यया तप्तं महत्तप:॥ ॥१०॥
अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ॥ ॥११॥
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।अनसूयेति या लोके कर्मभि: ख्यातिमागता॥ ॥१२॥
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम्॥ ॥१३॥
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम्॥ ॥१४॥
सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली॥ ॥१५॥
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।सततं वेपमानाङ्गी प्रवाते कदली यथा॥ ॥१६॥
तां तु सीता महाभागामनसूयां पतिव्रताम् ।अभ्यवादयदव्यग्रा स्वनाम समुदाहरत्॥ ॥१७॥
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्॥ ॥१८॥
तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे॥ ॥१९॥
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि॥ ॥२०॥
नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया:॥ ॥२१॥
दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।स्त्रीणामार्यस्वभावानां परमं दैवतं पति:॥ ॥२२॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम्॥ ॥२३॥
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या:॥ ॥२४॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा:॥ ॥२५॥
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा॥ ॥२६॥
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि॥ ॥२७॥
End of chapter ॥
1
Valmiki Ramayana · Ayodhya Kanda

Sarga 117

0
Sarga 117Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0