Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Ayodhya Kanda
तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् ।उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः॥ ॥१॥
न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् ।त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः॥ ॥२॥
विपरीतः च वृद्धः च विषयैः च प्रधर्षितः ।नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः॥ ॥३॥
न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् ।येन निर्वास्यते राष्ट्रात् वन वासाय राघवः॥ ॥४॥
न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः ।स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत्॥ ॥५॥
देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् ।अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात्॥ ॥६॥
तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः ।पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन्॥ ॥७॥
यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः ।तावद् एव मया साधम् आत्मस्थम् कुरु शासनम्॥ ॥८॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः॥ ॥९॥
निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ ।करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये॥ ॥१०॥
भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति ।सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते॥ ॥११॥
प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता ।अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि॥ ॥१२॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म्॥ ॥१३॥
बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ ।दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव॥ ॥१४॥
त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन॥ ॥१५॥
अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः ।सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे॥ ॥१६॥
दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते ।प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय॥ ॥१७॥
हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः ।देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु॥ ॥१८॥
एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः ।उवाच रामम् कौसल्या रुदन्ती शोक लालसा॥ ॥१९॥
भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया ।यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते॥ ॥२०॥
न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् ।विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः॥ ॥२१॥
धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि ।शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम्॥ ॥२२॥
शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् ।परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः॥ ॥२३॥
यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् ।त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम्॥ ॥२४॥
त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा ।त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम्॥ ॥२५॥
यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् ।अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम्॥ ॥२६॥
ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् ।ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः॥ ॥२७॥
विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः ।उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम्॥ ॥२८॥
न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम ।प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम्॥ ॥२९॥
ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा ।गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता॥ ॥३०॥
अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः ।खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः॥ ॥३१॥
जामदग्न्येन रामेण रेणुका जननी स्वयम् ।कृत्ता परशुना अरण्ये पितुर् वचन कारिणा॥ ॥३२॥
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम्॥ ॥३३॥
न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् ।एतैरपि कृतम् देवि ये मया तव कीर्तिताः॥ ॥३४॥
नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये ।पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते॥ ॥३५॥
तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा ।पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते॥ ॥३६॥
ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् ।तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम्॥ ॥३७॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम्॥ ॥३८॥
मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण ।अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च॥ ॥३९॥
धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् ।धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम्॥ ॥४०॥
सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा ।न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता॥ ॥४१॥
सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः॥ ॥४२॥
तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् ।धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम्॥ ॥४३॥
तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः ।उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः॥ ॥४४॥
अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् ।शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे॥ ॥४५॥
तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् ।ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम्॥ ॥४६॥
शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः ।वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः॥ ॥४७॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः॥ ॥४८॥
अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च ।वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम्॥ ॥४९॥
एतद्वच स्तस्य निशम्य माता ।सुधर्म्यमव्यग्रमविक्लबम् च ।मृतेव सम्ज्ञाम् प्रतिलभ्य देवी ।समीक्ष्य रामम् पुनरित्युवाच॥ ॥५०॥
यथैव ते पुत्र पिता तथाहम् ।गुरुः स्वधर्मेण सुहृत्तया च ।न त्वानुजानामि न मांविहाय ।सुदुःखितामर्हसि गन्तुमेवम्॥ ॥५१॥
किम् जीवितेनेह विना त्वया मे ।लोकेन वा किम् स्वधयाऽमृतेन ।श्रेयो मुहूर्तम् तव सन्निधानम् ।ममेह कृत्स्नादपि जीवलोकात्॥ ॥५२॥
नरैरिवोल्काभिरपोह्यमानो ।महागजोऽध्वानमनुप्रविष्टः ।भूयः प्रजज्वाल विलापमेवम् ।निशम्य रामः करुणम् जनन्या॥ ॥५३॥
स मातरम् चैव विसम्ज्ञकल्पा ।मार्तम् च सौमित्रि मभिप्रतप्तम् ।धर्मे स्थितो धर्म्यमुवाच वाक्यम् ।यथा स एवार्हति तत्र वक्तुम्॥ ॥५४॥
अहम् हि ते लक्ष्मण नित्यमेव ।जानामि भक्तिम् च पराक्रमम् च ।मम त्वभिप्राय मसन्निरीक्ष्य ।मात्रा सहाभ्यर्दसि मा सुदुःखम्॥ ॥५५॥
धर्मार्थकामाः खलु तात लोके ।समीक्षिता धर्मफलोदयेषु ।ते तत्र सर्वे स्युरसम्शयम् मे ।भार्येव वश्याभिमता सुपुत्रा॥ ॥५६॥
यस्मिम्स्तु सर्वे स्युरसन्निविष्टा ।धर्मो यतः स्यात् तदुपक्रमेत ।द्वेष्यो भवत्यर्थपरो हि लोके ।कामात्मता खल्वपि न प्रशस्ता॥ ॥५७॥
गुरुश्च राजा च पिता च वृद्धः ।क्रोधात्प्रहर्ष द्यदि वापि कामात् ।यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् ।कस्तन्न कुर्यादनृदनृशम्सवृत्तिः॥ ॥५८॥
सवै न शक्नोमि पितुः प्रतिज्ञा ।मिमामकर्तुम् सकलम् यथावत् ।स ह्यवयोस्तत गुरुर्नियोगे ।देवाश्च भर्ता स गतिस्स धर्मः॥ ॥५९॥
तस्मिन् पुनर्जीवति धर्मराजे ।विशेषतः स्वे पथि वर्तमाने ।देवी मया सार्थमितोऽपगच्छेत् ।कथम् स्विदन्या विधवेव नारी॥ ॥६०॥
सा मानुमन्यस्व वनम् व्रजन्तम् ।कुरुष्व नः स्वस्त्ययनानि देवि ।यथा समाप्ते पुनराव्रजेयम् ।यथा हि स्त्येन पुनर्ययातिः॥ ॥६१॥
यशो ह्यहम् केवलराज्यकारणात् ।न पृष्ठतः कर्तुमलम् महोदयम् ।अदीर्घकाले न तु देवि जीविते ।वृणेऽवरामद्य महीमधर्मतः॥ ॥६२॥
प्रसादयन् नर वृषभः स मातरम् ।पराक्रमाज्जिगमिषुरेव दोम्डकान् ।अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् ।चकार ताम् ह्Rदि जननीम् प्रदक्षिणम्॥ ॥६३॥
End of chapter ॥
1
Valmiki Ramayana · Ayodhya Kanda

Sarga 21

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0