Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः ।आससाद महाकायम् गृध्रम् भीम पराक्रमम्॥ ॥१॥
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ ।मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति॥ ॥२॥
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव ।उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः॥ ॥३॥
स तम् पितृ सखम् मत्वा पूजयामास राघवः ।स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च॥ ॥४॥
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च ।आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम्॥ ॥५॥
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् ।तान् मे निगदतः सर्वान् आदितः शृणु राघव॥ ॥६॥
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् ।शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान्॥ ॥७॥
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः ।पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा॥ ॥८॥
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव ।कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः॥ ॥९॥
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् ।षष्टिर् दुहितरो राम यशस्विन्यो महायशः॥ ॥१०॥
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः ।अदितिम् च दितिम् चैव दनूम् अपि च कालकाम्॥ ॥११॥
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि ।ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत्॥ ॥१२॥
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् ।अदितिः तन् मना राम दितिः च दनुर् एव च॥ ॥१३॥
कालका च महाबाहो शेषाः तु अमनसो अभवन् ।अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम॥ ॥१४॥
आदित्या वसवो रुद्रा अश्विनौ च परंतप ।दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः॥ ॥१५॥
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा ।दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम॥ ॥१६॥
नरकम् कालकम् चैव कालका अपि व्यजायत ।क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम्॥ ॥१७॥
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः ।उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत॥ ॥१८॥
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः ।धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः॥ ॥१९॥
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी ।शुकी नताम् विजज्ञे तु नताया विनता सुता॥ ॥२०॥
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः ।मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि॥ ॥२१॥
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा ।सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि॥ ॥२२॥
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम ।ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा॥ ॥२३॥
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् ।तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः॥ ॥२४॥
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः ।गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान्॥ ॥२५॥
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ ।दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम्॥ ॥२६॥
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत ।रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम्॥ ॥२७॥
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् ।सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान्॥ ॥२८॥
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः ।ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ॥ ॥२९॥
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा ।ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः॥ ॥३०॥
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत ।विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा॥ ॥३१॥
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् ।द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च॥ ॥३२॥
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः ।जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम॥ ॥३३॥
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि ।इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे॥ ॥३४॥
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् ।पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः॥ ॥३५॥
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा ।जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः॥ ॥३६॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 14

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0