Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् ।उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम्॥ ॥१॥
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् ।अयम् पंचवटी देशः सौम्य पुष्पित काननः॥ ॥२॥
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि ।आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः॥ ॥३॥
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण ।तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः॥ ॥४॥
वन रामण्यकम् यत्र जल रामण्यकम् तथा ।संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम्॥ ॥५॥
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः ।सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत्॥ ॥६॥
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते ।स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद॥ ॥७॥
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।विमृशन् रोचयामास देशम् सर्व गुण अन्वितम्॥ ॥८॥
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि ।हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत्॥ ॥९॥
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः ।इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि॥ ॥१०॥
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः ।अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता॥ ॥११॥
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना ।इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता॥ ॥१२॥
हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता ।न अतिदूरे न च आसन्ने मृग यूथ निपीडिता॥ ॥१३॥
मयूर नादिता रम्याः प्रांशवो बहु कंदराः ।दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः॥ ॥१४॥
सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः ।गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः॥ ॥१५॥
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः ।नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः॥ ॥१६॥
चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः ।पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः॥ ॥१७॥
स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि ।धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः॥ ॥१८॥
इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् ।इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा॥ ॥१९॥
एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा ।अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः॥ ॥२०॥
पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् ।सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम्॥ ॥२१॥
शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् ।कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा॥ ॥२२॥
समीकृत तलाम् रम्याम् चकार सुमहाबलः ।निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम्॥ ॥२३॥
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा ।स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः॥ ॥२४॥
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि ।दर्शयामास रामाय तद् आश्रम पदम् कृतम्॥ ॥२५॥
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया ।राघवः पर्णशालायाम् हर्षम् आहारयत् परम्॥ ॥२६॥
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा ।अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत्॥ ॥२७॥
प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो ।प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः॥ ॥२८॥
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम॥ ॥२९॥
एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः ।तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी॥ ॥३०॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 15

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0