Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
ततः शूर्पणखा दीना रावणम् लोक रावणम् ।अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत्॥ ॥१॥
प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः ।समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे॥ ॥२॥
सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् ।लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः॥ ॥३॥
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः ।स तु वै सह राज्येन तैः च कार्यैः विनश्यति॥ ॥४॥
अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् ।वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः॥ ॥५॥
ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः ।ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा॥ ॥६॥
आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः ।अयुक्त चारः चपलः कथम् राजा भविष्यसि॥ ॥७॥
त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस ।ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि॥ ॥८॥
येषाम् चारः च कोशः च नयः च जयताम् वर ।अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः॥ ॥९॥
यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः ।चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः॥ ॥१०॥
अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः ।स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे॥ ॥११॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।हतानि एकेन रामेण खरः च सह दूषणः॥ ॥१२॥
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ।धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा॥ ॥१३॥
त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण ।विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे॥ ॥१४॥
तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् ।व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम्॥ ॥१५॥
अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् ।क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम्॥ ॥१६॥
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च ।क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह॥ ॥१७॥
शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः ।न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः॥ ॥१८॥
उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा ।एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः॥ ॥१९॥
अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः ।कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम्॥ ॥२०॥
नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा ।व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः॥ ॥२१॥
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः ।यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः॥ ॥२२॥
पर अवमंता विषयेषु संगवान्न देश काल प्रविभाग तत्त्व वित् ।अयुक्त बुद्धिः गुण दोष निश्चयेविपन्न राज्यो न चिरात् विपत्स्यते॥ ॥२३॥
इति स्व दोषान् परिकीर्तिताम् तयासमीक्ष्य बुद्ध्या क्षणदा चरेश्वरः ।धनेन दर्पेण बलेन च अन्वितोविचिन्तयामास चिरम् स रावणः॥ ॥२४॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 33

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0