Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
इति उक्तः क्रोध ताम्राक्षः तप्त कांचन कुण्डलः ।राक्षसेन्द्रो अभिदुद्राव पतगेन्द्रम् अमर्षणः॥ ॥१॥
स संप्रहारः तुमुलः तयोः तस्मिन् महा मृधे ।बभूव वात उद्धतयोः मेघयोः गगने यथा॥ ॥२॥
तत् बभूव अद्भुतम् युद्धम् गृध्र राक्षसयोः तदा ।सपक्षयोः माल्यवतोः महा पर्वतयोः इव॥ ॥३॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः॥ ॥४॥
स तानि शर जालानि गृध्रः पत्ररथ ईश्वरः ।जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे॥ ॥५॥
तस्य तीक्ष्ण नखाभ्याम् तु चरणाभ्याम् महाबलः ।चकार बहुधा गात्रे व्रणान् पतग सत्तमः॥ ॥६॥
अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् ।मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया॥ ॥७॥
स तैः बाणैः महावीर्यः पूर्ण मुक्तैः अजिह्म गैः ।बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः॥ ॥८॥
स राक्षस रथे पश्यन् जानकीम् बाष्प लोचनाम् ।अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत्॥ ॥९॥
ततो अस्य सशरम् चापम् मुक्ता मणि विभूषितम् ।चरणाभ्याम् महातेजा बभंज पतगोत्तमः॥ ॥१०॥
ततो अन्यत् धनुः आदाय रावणः क्रोध मूर्च्छितः ।ववर्ष शर वर्षाणि शतशो अथ सहस्रशः॥ ॥११॥
शरैः आवारितः तस्य संयुगे पतगेश्वरः ।कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा॥ ॥१२॥
स तानि शर जालानि पक्षाभ्याम् तु विधूय ह ।चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः॥ ॥१३॥
तत् च अग्नि सदृशम् दीप्तम् रावणस्य शरावरम् ।पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः॥ ॥१४॥
कांचन उरः छदान् दिव्यान् पिशाच वदनान् खरान् ।तान् च अस्य जव संपन्नान् जघान समरे बली॥ ॥१५॥
अथ त्रिवेणु संपन्नम् कामगम् पावक अर्चिषम् ।मणि सोपान चित्र अंगम् बभंज च महारथम्॥ ॥१६॥
पूर्ण चन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह ।पातयामास वेगेन ग्राहिभी राक्षसैः सह॥ ॥१७॥
सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः ।पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः॥ ॥१८॥
स भग्न धन्वा विरथो हत अश्वो हत सारथिः ।अंकेन आदाय वैदेहीम् पपात भुवि रावणः॥ ॥१९॥
दृष्ट्वा निपतितम् भूमौ रावणम् भग्न वाहनम् ।साधु साधु इति भूतानि गृध्र राजम् अपूजयन्॥ ॥२०॥
परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि यूथपम् ।उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः॥ ॥२१॥
तम् प्रहृष्टम् निधाय अंके रावणम् जनक आत्मजाम् ।गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम्॥ ॥२२॥
गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् ।समावार्यम् महातेजा जटायुः इदम् अब्रवीत्॥ ॥२३॥
वर्ज संस्पर्श बाणस्य भार्याम् रामस्य रावण ।अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम्॥ ॥२४॥
स मित्र बन्धुः स अमात्यः स बलः स परिच्छदः ।विष पानम् पिबसि एतत् पिपासित इव उदकम्॥ ॥२५॥
अनुबंधम् अजानंतः कर्मणाम् अविचक्षणाः ।शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि॥ ॥२६॥
बद्धः त्वम् काल पाशेन क्व गतः तस्य मोक्ष्यसे ।वधाय बडिशम् गृह्य स अमिषम् जलजो यथा॥ ॥२७॥
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ।धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ॥ ॥२८॥
यथा त्वया कृतम् कर्म भीरुणा लोक गर्हितम् ।तस्कर आचरितो मार्गो न एष वीर निषेवितः॥ ॥२९॥
युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा॥ ॥३०॥
परेत काले पुरुषो यत् कर्म प्रतिपद्यते ।विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत्॥ ॥३१॥
पाप अनुबंधो वै यस्य कर्मणः को नु तत् पुमान् ।कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि॥ ॥३२॥
एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः ।निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान्॥ ॥३३॥
तम् गृहीत्वा नखैः तीक्ष्णैः विददार समंततः ।अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम्॥ ॥३४॥
विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् ।केशान् च उत्पाटयामास नख पक्ष मुख आयुधः॥ ॥३५॥
स तथा गृध्र राजेन क्लिश्यमानो मुहुर् मुहुः ।अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः॥ ॥३६॥
संपरिष्वज्य वैदेहीम् वामेन अंकेन रावणः ।तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः॥ ॥३७॥
जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग अधिपः ।वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः॥ ॥३८॥
संच्छिन्न बाहोः सद्यो वै बाहवः सहसा अभवन् ।विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः॥ ॥३९॥
ततः क्रोद्धात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् ।मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत्॥ ॥४०॥
ततो मुहूर्तम् संग्रामो बभूव अतुल वीर्ययोः ।राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च॥ ॥४१॥
तस्य व्यायच्छमानस्य रामस्य अर्थे अथ रावणः ।पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत्॥ ॥४२॥
स छिन्न पक्षः सहसा रक्षसा रौद्र कर्मणा ।निपपात महा गृध्रो धरण्याम् अल्प जीवितः॥ ॥४३॥
तम् दृष्ट्वा पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता॥ ॥४४॥
तम् नील जीमूत निकाश कल्पम्सुपाण्डुर उरस्कम् उदार वीर्यम् ।ददर्श लंका अधिपतिः पृथिव्याम्जटायुषम् शान्तम् इव अग्नि दावम्॥ ॥४५॥
ततः तु तम् पत्ररथम् मही तलेनिपातितम् रावण वेग मर्दितम् ।पुनः च संगृह्य शशि प्रभ आननारुरोद सीता जनक आत्मजा तदा॥ ॥४६॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 51

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0