Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत्॥ ॥१॥
मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते॥ ॥२॥
अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते॥ ॥३॥
जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः॥ ॥४॥
किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया॥ ॥५॥
कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम॥ ॥६॥
कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः॥ ॥७॥
तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत्॥ ॥८॥
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम्॥ ॥९॥
परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः॥ ॥१०॥
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान्॥ ॥११॥
येन याति मुहूर्तेन सीताम् आदाय रावणः ।विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते॥ ॥१२॥
विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति॥ ॥१३॥
न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि॥ ॥१४॥
असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम्॥ ॥१५॥
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः॥ ॥१६॥
ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम्॥ ॥१७॥
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।विक्षिप्य च शरीरम् स्वम् पपात धरणी तले॥ ॥१८॥
तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत्॥ ॥१९॥
बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा॥ ॥२०॥
अनेक वार्षिको यः तु चिर काल समुत्थितः ।सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः॥ ॥२१॥
पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।सीताम् अभ्यवपन्नो हि रावणेन बलीयसा॥ ॥२२॥
गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः॥ ॥२३॥
सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि॥ ॥२४॥
सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।यथा विनाशो गृध्रस्य मत् कृते च परंतप॥ ॥२५॥
राजा दशरथः श्रीमान् यथा मम मया यशाः ।पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः॥ ॥२६॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम्॥ ॥२७॥
नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा॥ ॥२८॥
या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम्॥ ॥२९॥
मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।गृध्र राज महा सत्त्व संस्कृतः च मया व्रज॥ ॥३०॥
एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः॥ ॥३१॥
रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम्॥ ॥३२॥
रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।शकुनाय ददौ रामो रम्ये हरित शाद्वले॥ ॥३३॥
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह॥ ॥३४॥
ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ ।उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ॥ ॥३५॥
शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा॥ ॥३६॥
स गृध्र राजः कृतवान् यशस्करम्सु दुष्करम् कर्म रणे निपातितः ।महर्षि कल्पेन च संस्कृतः तदाजगाम पुण्याम् गतिम् आत्मनः शुभाम्॥ ॥३७॥
कृतोदकौ तौ अपि पक्षि सत्तमेस्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः ।प्रवेश्य सीता अधिगमने ततो मनोवनम् सुरेन्द्रौ इव विष्णु वासवौ॥ ॥३८॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 68

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0