Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
एतच् च वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।प्रत्ययार्थम् महातेजा रामो जग्राह कार्मुकम्॥ ॥१॥
स गृहीत्वा धनुर् घोरम् शरम् एकम् च मानदः ।सालम् उद्दिश्य चिक्षेप पूरयन् स रवैः दिशः॥ ॥२॥
स विसृष्टो बलवता बाणः स्वर्ण परिष्कृतः ।भित्त्वा सालान् गिरि प्रस्थम् सप्त भूमिम् विवेश ह॥ ॥३॥
सायकः तु मुहूर्तेन सालान् भित्त्वा महाजवः ।निष्पत्य च पुनः तूर्णम् तम् एव प्रविवेश ह॥ ॥४॥
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः ।रामस्य शर वेगेन विस्मयम् परमम् गतः॥ ॥५॥
स मूर्ध्ना न्यपतत् भूमौ प्रलंबीकृत भूषणः ।सुग्रीवः परम प्रीतो राघवाय कृतांजलिः॥ ॥६॥
इदम् च उवाच धर्मज्ञम् कर्मणा तेन हर्षितः ।रामम् सर्व अस्त्र विदुषाम् श्रेष्ठम् शूरम् अवस्थितम्॥ ॥७॥
स इन्द्रान् अपि सुरान् सर्वाम् त्वम् बाणैः पुरुषर्षभ ।समर्थः समरे हन्तुम् किम् पुनर् वालिनम् प्रभो॥ ॥८॥
येन सप्त महा साला गिरिर् भूमिः च दारिताः ।बाणेन एकेन काकुत्स्थ स्थाता ते को रण अग्रतः॥ ॥९॥
अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम ।सुहृदम् त्वाम् समासाद्य महेन्द्र वरुणोपमम्॥ ॥१०॥
तम् अद्य एव प्रियार्थम् मे वैरिणम् भ्रातृ रूपिणम् ।वालिनम् जहि काकुत्स्थ मया बद्धो अयम् अंजलिः॥ ॥११॥
ततो रामः परिष्वज्य सुग्रीवम् प्रिय दर्शनम् ।प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतम् वचः॥ ॥१२॥
अस्माद् गच्छाम किष्किन्धाम् क्षिप्रम् गच्छ त्वम् अग्रतः ।गत्वा च आह्वय सुग्रीव वालिनम् भ्रातृ गन्धिनम्॥ ॥१३॥
सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् ।वृक्षैः आत्मानम् आवृत्य हि अतिष्ठन् गहने वने॥ ॥१४॥
सुग्रीवो अपि व्यनदद् घोरम् वालिनो ह्वान कारणात् ।गाढम् परिहितो वेगान् नादैः भिन्दन् इव अंबरम्॥ ॥१५॥
तम् श्रुत्वा निनदम् भ्रातुः क्रुद्धो वाली महाबलः ।निष्पपात सुसंरब्धो भास्करो अस्त तटात् इव॥ ॥१६॥
ततः सुतुमुलम् युद्धम् वालि सुग्रीवयोः अभूत् ।गगने ग्रहयोः घोरम् बुध अंगारकयोः इव॥ ॥१७॥
तलैः अशनि कल्पैः च वज्र कल्पैः च मुष्टिभिः ।जघ्नतुः समरे अन्योन्यम् भ्रातरौ क्रोध मूर्च्छितौ॥ ॥१८॥
ततो रामो धनुष् पाणिः तौ उभौ समुदैक्षत ।अन्योन्य सदृशौ वीरौ उभौ देवौ इव अश्विनौ॥ ॥१९॥
यत् न अवगच्छत् सुग्रीवम् वालिनम् वा अपि राघवः ।ततो न कृतवान् बुद्धिम् मोक्तुम् अन्तकरम् शरम्॥ ॥२०॥
एतस्मिन् अन्तरे भग्नः सुग्रीवः तेन वालिना ।अपश्यन् राघवम् नाथम् ऋश्यमूकम् प्रदुद्रुवे॥ ॥२१॥
क्लान्तो रुधिर सिक्त अंगो प्रहारैः जर्जरी कृतः ।वालिना अभिद्रुतः क्रोधात् प्रविवेश महावनम्॥ ॥२२॥
तम् प्रविष्टम् वनम् दृष्ट्वा वाली शाप भयात् ततः ।मुक्तो हि असि त्वम् इति उक्त्वा स निवृत्तो महाबलः॥ ॥२३॥
राघवो अपि सह भ्रात्रा सह चैव हनूमता ।तदेव वनम् आगच्छत् सुग्रीवो यत्र वानरः॥ ॥२४॥
तम् समीक्ष्य आगतम् रामम् सुग्रीवः सह लक्ष्मणम् ।ह्रीमान् दीनम् उवाच इदम् वसुधाम् अवलोकयन्॥ ॥२५॥
आह्वयस्व इति माम् उक्त्वा दर्शयित्वा च विक्रमम् ।वैरिणा घातयित्वा च किम् इदानीम् त्वया कृतम्॥ ॥२६॥
ताम् एव वेलाम् वक्तव्यम् त्वया राघव तत्त्वतः ।वालिनम् न निहन्मि इति ततो न अहम् इतो व्रजे॥ ॥२७॥
तस्य च एवम् ब्रुवाणस्य सुग्रीवस्य महात्मनः ।करुणम् दीनया वाचा राघवः पुनर् अब्रवीत्॥ ॥२८॥
सुग्रीव श्रूयताम् तात क्रोधः च व्यपनीयताम् ।कारणम् येन बाणो अयम् स मया न विसर्जितः॥ ॥२९॥
अलंकारेण वेषेण प्रमाणेन गतेन च ।त्वम् च सुग्रीव वाली च सदृशौ स्थः परस्परम्॥ ॥३०॥
स्वरेण वर्चसा च एव प्रेक्षितेन च वानर ।विक्रमेण च वाक्यैः च व्यक्तिम् वाम् न उपलक्षये॥ ॥३१॥
ततो अहम् रूप सादृश्यात् मोहितो वानरोत्तम ।न उत्सृजामि महावेगम् शरम् शत्रु निबर्हणम्॥ ॥३२॥
जीवित अन्तकरम् घोरम् सादृश्यात् तु विशंकितः ।मूलघातो न नौ स्याद्धि द्वयोः इति कृतो मया॥ ॥३३॥
त्वयि वीर विपन्ने हि अज्ञान् लाघवान् मया ।मौढ्यम् च मम बाल्यम् च ख्यापितम् स्यात् कपीस्वर॥ ॥३४॥
दत्त अभय वधो नाम पातकम् महत् अद्भुतम् ।अहम् च लक्ष्मणः च एव सीत च वरवर्णिनी॥ ॥३५॥
त्वत् अधीना वयम् सर्वे वने अस्मिन् शरणम् भवान् ।तस्मात् युध्यस्व भूयस्त्वम् मा शंकी च वानर॥ ॥३६॥
एतन् मुहूर्ते तु मया पश्य वालिनम् आहवे ।निरस्तम् इषुणा एकेन वेष्टमानम् महीतले॥ ॥३७॥
अभिज्ञानम् कुरुष्व त्वम् आत्मनो वानरेश्वर ।येन त्वाम् अभिजानीयाम् द्वन्द्व युद्धम् उपागतम्॥ ॥३८॥
गज पुष्पीम् इमाम् फुल्लाम् उत्पाट्य शुभ लक्षणाम् ।कुरु लक्ष्मण कण्ठे अस्य सुग्रीवस्य महात्मनः॥ ॥३९॥
ततो गिरि तटे जाताम् उत्पाट्य कुसुमायुताम् ।लक्ष्मणो गज पुष्पीम् ताम् तस्य कण्ठे व्यसर्जयत्॥ ॥४०॥
स तथा शुशुभे श्रीमान् लतया कण्ठ सक्तया ।मालया इव बलाकानाम् ससंध्य इव तोयदः॥ ॥४१॥
विभ्राजमानो वपुषा राम वाक्य समाहितः ।जगाम सह रामेण किष्किंधाम् पुनराप सः॥ ॥४२॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 12

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0