Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पालिताम् ।वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने॥ ॥१॥
विसार्य सर्वतो दृष्टिम् कानने कानन प्रियः ।सुग्रीवो विपुल ग्रीवः क्रोधम् आहारयद् भृशम्॥ ॥२॥
ततः तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् ।परिवारैः परिवृतो नादैर् भिन्दन् इव अंबरम्॥ ॥३॥
गर्जन् इव महामेघो वायु वेग पुरस्सरः ।अथ बालार्क सदृशो दृप्त सिम्ह गतिः ततः॥ ॥४॥
दृष्ट्वा रामम् क्रिया दक्षम् सुग्रीवो वाक्यम् अब्रवीत् ।हरि वागुरया व्याप्तम् तप्त कांचन तोरणाम्॥ ॥५॥
प्राप्ताः स्म ध्वज यंत्र आढ्याम् किष्किन्धाम् वालिनः पुरीम् ।प्रतिज्ञा या कृता वीर त्वया वालि वधे पुरा॥ ॥६॥
सफलाम् कुरु ताम् क्षिप्रम् लताम् काल इव आगतः ।एवम् उक्तः तु धर्मात्मा सुग्रीवेण स राघवः॥ ॥७॥
तम् एव उवाच वचनम् सुग्रीवम् शत्रु सूदनः ।कृत अभिज्ञान चिह्नः त्वम् अनया गज साह्वया॥ ॥८॥
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव ।सोभासे अपि अधिकम् वीर लतया कण्ठसक्तया॥ ॥९॥
विपरीत इव आकाशे सूर्यो नक्षत्र मालया ।अद्य वालि समुत्थम् ते भयम् वैरम् च वानर॥ ॥१०॥
एकेन अहम् प्रमोक्ष्यामि बाण मोक्षेण संयुगे ।मम दर्शय सुग्रीव वैरिणम् भ्रातृ रूपिणम्॥ ॥११॥
वाली विनिहतो यावद् वने पांसुषु चेष्टते ।यदि दृष्टि पथम् प्राप्तो जीवन् स विनिवर्तते॥ ॥१२॥
ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च माम् भवान् ।प्रत्यक्षम् सप्त ते साला मया बाणेन दारिताः॥ ॥१३॥
ततो वेत्सि बलेन अद्य वालिनम् निहतम् मया ।अनृतम् न उक्त पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता॥ ॥१४॥
धर्म लोभ परीतेन न च वक्ष्ये कथंचन ।सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम्॥ ॥१५॥
प्रसूतम् कलमक्षेत्रे वर्षेण इव शतक्रतुः ।तद् आह्वान निमित्तम् च वालिनो हेममालिनः॥ ॥१६॥
सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः ।जितकाशी जयश्लाघी त्वया च अधर्षितः पुरात्॥ ॥१७॥
निष्पतिष्यति असंगेन वाली स प्रियसम्युगः ।रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे॥ ॥१८॥
जानन्तः तु स्वकम् वीर्यम् स्त्री समक्षम् विशेषतः ।स तु राम वचः श्रुत्वा सुग्रीवो हेमपिंगलः॥ ॥१९॥
ननर्द क्रूर नादेन विनिर्भिन्दन् इव अम्बरम् ।तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः॥ ॥२०॥
राजदोष परामृष्टाः कुलस्त्रिय इव आकुलाः ।द्रवन्ति च मृगाः शीघ्रम् भग्ना;इव रणे हयाः ।पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः॥ ॥२१॥
ततः स जीमूत कृत प्रणादोनादम् हि अमुंचत् त्वरया प्रतीतः ।सूर्यात्मजः शौर्य विवृद्ध तेजाःसरित् पतिर्वा अनिल चंचल ऊर्मिः॥ ॥२२॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 14

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0