Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
ताम् एवम् ब्रुवतीम् ताराम् ताराधिप निभ आननाम् ।वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत्॥ ॥१॥
गर्जतो अस्य च सुसंरब्धम् भ्रातुः शत्रोर् विशेषतः ।मर्षयिष्यामि केन कारणेन वरानने॥ ॥२॥
अधर्षितानाम् शूराणाम् समरेषु अनिवर्तिनाम् ।धर्षणाम् अर्षणम् भीरु मरणात् अतिरिच्यते॥ ॥३॥
सोढुम् न च समर्थो अहम् युद्ध कामस्य संयुगे ।सुग्रीवस्य च संरंभम् हीन ग्रीवस्य गर्जतम्॥ ॥४॥
न च कार्यो विषादः ते राघवम् प्रति मत् कृते ।धर्मज्ञः च कृतज्ञः च कथम् पापम् करिष्यति॥ ॥५॥
निवर्तस्व सह स्त्रीभिः कथम् भूयो अनुगच्छसि ।सौहृदम् दर्शितम् तावत् मयि भक्तिः त्वया कृता॥ ॥६॥
प्रति योत्स्यामि अहम् गत्वा सुग्रीवम् जहि संभ्रमम् ।दर्पम् च अस्य विनेष्यामि न च प्राणैर् वियोक्ष्यते॥ ॥७॥
अहम् हि अजि स्थितस्य अस्य करिष्यामि यत् ईप्सितम् ।वृक्षैः मुष्टि प्रहारैः च पीडितः प्रति यास्यति॥ ॥८॥
न मे गर्वितम् आयस्तम् सहिष्यति दुरात्मवान् ।कृतम् तारे सहायत्वम् दर्शितम् सौहृदम् मयि॥ ॥९॥
शापिता असि मम प्राणैः निवर्तस्व जनेन च ।अलम् जित्वा निवर्तिष्ये तम् अहम् भ्रातरम् रणे॥ ॥१०॥
तम् तु तारा परिष्वज्य वालिनम् प्रिय वादिनी ।चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम्॥ ॥११॥
ततः स्वस्त्ययनम् कृत्वा मंत्रवित् विजय एषिणी ।अंतःपुरम् सह स्त्रीभिः प्रविष्टा शोक मोहिता॥ ॥१२॥
प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् ।नगर्या निर्ययौ क्रुद्धो महा सर्प इव श्वसन्॥ ॥१३॥
स निःश्वस्य महारोषो वाली परम वेगवान् ।सर्वतः चारयन् दृष्टिम् शत्रु दर्शन कांक्षया॥ ॥१४॥
स ददर्श ततः श्रीमान् सुग्रीवम् हेम पिङ्गलम् ।सुसंवीतम् अवष्टब्धम् दीप्यमानम् इव अनलम्॥ ॥१५॥
तम् स दृष्ट्वा महाबाहुः सुग्रीवम् पर्यवस्थितम् ।गाढम् परिदधे वासो वाली परम कोपिनः॥ ॥१६॥
स वाली गाढ संवीतो मुष्टिम् उद्यम्य वीर्यवान् ।सुग्रीवम् एव अभिमुखो ययौ योद्धुम् कृत क्षणः॥ ॥१७॥
श्लिष्टम् मुष्टिम् समुद्यम्य संरब्धतरम् आगतः ।सुग्रीवो अपि समुद्दिश्य वालिनम् हेम मालिनम्॥ ॥१८॥
तम् वाली क्रोध ताम्राक्षः सुग्रीवम् रण कोविदम् ।आपतंतम् महा वेगम् इदम् वचनम् अब्रवीत्॥ ॥१९॥
एष मुष्टिर् महान् बद्धो गाढः सुनियत अंगुलिः ।मया वेग विमुक्तः ते प्राणान् आदाय यास्यति॥ ॥२०॥
एवम् उक्तः तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् ।तव च एष हरन् प्राणान् मुष्टिः पततु मूर्धनि॥ ॥२१॥
ताडितः तेन तम् क्रुद्धः समभिक्रम्य वेगतः ।अभवत् शोणित उद्गारी सापीड इव पर्वतः॥ ॥२२॥
सुग्रीवेण तु निःशंकम् सालम् उत्पाट्य तेजसा ।गात्रेषु अभिहतो वाली वज्रेण इव महा गिरिः॥ ॥२३॥
स तु वृक्षेण निर्भग्नः साल ताडन विह्वलः ।गुरु भार भर आक्रान्ता नौः ससार्था इव सागरे॥ ॥२४॥
तौ भीम बल विक्रान्तौ सुपर्ण सम वेगिनौ ।प्रयुद्धौ घोर वपुषौ चन्द्र सूर्यौ इव अंबरे॥ ॥२५॥
परस्परम् अमित्र घ्नौ च्छिद्र अन्वेषण तत्परौ ।ततो अवर्धत वाली तु बल वीर्य समन्वितः॥ ॥२६॥
सूर्य पुत्रो महावीर्यः सुग्रीवः परिहीयत ।वालिना भग्न दर्पः तु सुग्रीवो मन्द विक्रमः॥ ॥२७॥
वालिनम् प्रति सामर्षो दर्शयामास राघवम् ।वृक्षैः स शाखैः शिखरैः वज्र कोटि निभैः नखैः॥ ॥२८॥
मुष्टिभिः जानुभिः पद्भिः बाहुभिः च पुनः पुनः ।तयोः युद्द्धम् अभूत् घोरम् वृत्र वासवोः इव॥ ॥२९॥
तौ शोणितात्कौ युध्येताम् वानारौ वन् चारिणौ ।मेघौ इव महा शब्दैः तर्जमानौ परस्परम्॥ ॥३०॥
हीयमानम् अथ अपश्यत् सुग्रीवम् वानरेश्वरम् ।प्रेक्षमाणम् दिशः च एव राघवः स मुहुर् मुहुर्॥ ॥३१॥
ततो रामो महातेजा आर्तम् दृष्ट्वा हरीश्वरम् ।स शरम् वीक्षते वीरो वालिनो वध कांक्षया॥ ॥३२॥
ततो धनुषि संधाय शरम् आशी विष उपमम् ।पूरयामास तत् चापम् काल चक्रम् इव अन्तकः॥ ॥३३॥
तस्य ज्यातल घोषेण त्रस्ताः पत्ररथेश्वराः ।प्रदुद्रुवुर् मृगाः च एव युगांत इव मोहिताः॥ ॥३४॥
मुक्तस्तु वज्र निर्घोषः प्रदीप्त अशनि संनिभः ।राघवेण महा बाणो वालि वक्षसि पातितः॥ ॥३५॥
ततः तेन महातेजा वीर्य युक्तः कपीश्वरः ।वेगेन अभिहतो वाली निपपात मही तले॥ ॥३६॥
इन्द्र ध्वज इव उद्धूत पौर्ण मास्याम् महीतले ।अश्वयुक् समये मासि गत सत्त्वो विचेतनः ।बाष्प संरुद्ध कण्ठस्तु वाली च आर्त स्वरः शनैः॥ ॥३७॥
नरोत्तमः काल युगांतकोपमम् शरोत्तमम् कांचन रूप्यभूषितम् ।ससर्ज दीप्तम् तम् अमित्र मर्दनम् स धूममग्निम् मुखतो यथा हरः॥ ॥३८॥
अथ उक्षितः शोणित तोय विस्रवैःसुपुष्पित अशोक इव अचलोद्गतः ।विचेतनो वासव सूनुर् आहवेप्रभ्रञ्शित इन्द्र ध्वजवत् क्षितिम् गतः॥ ॥३९॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 16

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0