Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
स वानर महाराजः शयानः शर पीडितः ।प्रत्युक्तो हेतुमद् वाक्यैः न उत्तरम् प्रत्यपद्यत॥ ॥१॥
अश्मभिः परिभिन्न अंगः पादपैर् आहतो भृशम् ।राम बाणेन च आक्रान्तो जीवित अंते मुमोह सः॥ ॥२॥
तम् भार्या बाण मोक्षेण राम दत्तेन संयुगे ।हतम् प्लवग शार्दूलम् तारा शुश्राव वालिनम्॥ ॥३॥
सा सपुत्र अप्रियम् श्रुत्वा वधम् भर्तुः सुदारुणम् ।निष्पपात भृशम् तस्मात् उद्विग्ना गिरि कंदरात्॥ ॥४॥
ये ते अंगद परीवारा वानरा हि महाबलाः ।ते सकार्मुकम् आलोक्य रामम् त्रस्ताः प्रदुद्रुवुः॥ ॥५॥
सा ददर्श ततः त्रस्तान् हरीन् आपततो द्रुतम् ।यूथाद् इव परिभ्रष्टान् मृगान् निहत यूथपान्॥ ॥६॥
तान् उवाच समासाद्य दुःखितान् दुःखिता सती ।राम वित्रासितान् सर्वान् अनुबद्धान् इव इषुभिः॥ ॥७॥
वानरा राज सिंहस्य यस्य यूयम् पुरः सराः ।तम् विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः॥ ॥८॥
राज्य हेतोः स चेत् भ्राता भ्रात्रा कॄरेण पातितः ।रामेण प्रसृतैः दूरात् मार्गणैः दूर पातिभिः॥ ॥९॥
कपि पत्न्या वचः श्रुत्वा कपयः काम रूपिणः ।प्राप्त कालम् अविश्लिष्टम् ऊचुर् वचनम् अंगनाम्॥ ॥१०॥
जीवपुत्रे निवर्तस्व पुत्रम् रक्षस्व च अन्दगम् ।अंतको राम रूपेण हत्वा नयति वालिनम्॥ ॥११॥
क्षिप्तान् वृक्षान् समाविध्य विपुलाः च शिलाः तथा ।वाली वज्र समैर् बाणैर् वज्रेण इव निपातितः॥ ॥१२॥
अभिभूतम् इदम् सर्वम् विद्रुतम् वानरम् बलम् ।अस्मिन् प्लवग शार्दूले हते शक्र सम प्रभे॥ ॥१३॥
रक्ष्यताम् नगरम् शूरैर् अंगदः च अभिषिच्यताम् ।पदस्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः॥ ॥१४॥
अथवा अरुचितम् स्थानम् इह ते रुचिरानने ।आविशन्ति हि दुर्गाणि क्षिप्रम् अद्य एव वानराः॥ ॥१५॥
अभार्याः सह भार्याः च सन्ति अत्र वन चारिणः ।लुब्धेभ्यो विप्रलब्धेयः तेभ्यो नः सुमहद् भयम्॥ ॥१६॥
अल्पांतर गतानाम् तु श्रुत्वा वचनम् अंगना ।आत्मनः प्रतिरूपम् सा बभाषे चारु हासिनी॥ ॥१७॥
पुत्रेण मम किम् कार्यम् किम् राज्येन किम् आत्मना ।कपि सिम्हे महा भागे तस्मिन् भर्तरि नश्यति॥ ॥१८॥
पाद मूलम् गमिष्यामि तस्य एव अहम् महात्मनः ।यो असौ राम प्रयुक्तेन शरेण विनिपातितः॥ ॥१९॥
एवम् उक्त्वा प्रदुद्राव रुदती शोक मूर्च्छिता ।शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती॥ ॥२०॥
सा व्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि ।हन्तारम् दानव इन्द्राणाम् समरेषु अनिवर्तिनाम्॥ ॥२१॥
क्षेप्तारम् पर्वत इन्द्राणाम् वज्राणाम् इव वासवम् ।महावात समाविष्टम् महामेघ औघ निःस्वनम्॥ ॥२२॥
शक्रतुल्य पराक्रांतम् वृष्ट्वा इव उपरतम् घनम् ।नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् ।शार्दूलेन आमिषस्य अर्थे मृग राजम् इव आहतम्॥ ॥२३॥
अर्चितम् सर्व लोकस्य सपताकम् सवेदिकम् ।नाग हेतोः सुपर्णेन चैत्यम् उन्मथितम् यथा॥ ॥२४॥
अवष्टभ्य अवतिष्ठंतम् ददर्श धनुर् ऊर्जितम् ।रामम् रामानुजम् चैव भर्तुः चैव तथा अनुजम्॥ ॥२५॥
तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे ।समीक्ष्य व्यथिता भूमौ संभ्रांता निपपात ह॥ ॥२६॥
सुप्ता इव पुनर् उत्थाय आर्य पुत्र इति वादिनी ।रुरोद सा पतिम् दृष्ट्वा सम्वीतम् मृत्यु दामभिः॥ ॥२७॥
ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीम् कुररीम् इव ।विषादम् अगमत् कष्टम् दृष्ट्वा च अंगदम् आगतम्॥ ॥२८॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 19

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0