Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
राम चाप विसृष्टेन शरेण अंतकरेण तम् ।दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप आनना॥ ॥१॥
सा समासाद्य भर्तारम् पर्यष्वजत भामिनी ।इषुणा अभिहतम् दृष्ट्वा वालिनम् कुंजरोपमम्॥ ॥२॥
वानरम् पर्वत इन्द्र आभम् शोक संतप्त मानसा ।तारा तरुम् इव उन्मूलम् पर्यदेवयत् आतुरा॥ ॥३॥
रणे दारुण विक्रान्त प्रवीर प्लवताम् वर ।किम् इदीनाम् पुरो भागाम् अद्य त्वम् न अभिभाषसे॥ ॥४॥
उत्तिष्ठ हरि शार्दूल भजस्व शयन उत्तमम् ।न एवम् विधाः शेरते हि भूमौ नृपति सत्तमाः॥ ॥५॥
अतीव खलु ते कांता वसुधा वसुधाधिप ।गत असुर् अपि ताम् गात्रैः माम् विहाय निषेवसे॥ ॥६॥
व्यक्तम् अद्य त्वया वीर धर्मतः संप्रवर्तता ।किष्किंधा इव पुरी रम्या स्वर्ग मार्गे विनिर्मिता॥ ॥७॥
यानि अस्माभिः त्वया सार्धम् वनेषु मधु गंधिषु ।विहृतानि त्वया काले तेषाम् उपरमः कृतः॥ ॥८॥
निरानंदा निराशा अहम् निमग्ना शोक सागरे ।त्वयि पंचत्वम् आपन्ने महायूथप यूथपे॥ ॥९॥
हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि ।यन् न शोक अभिसंतप्तम् स्फुटते अद्य सहस्रधा॥ ॥१०॥
सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवगाधिप॥ ॥११॥
निःश्रेयस परा मोहात् त्वया च अहम् विगर्हिता ।या एषा अब्रुवम् हितम् वाक्यम् वानरेन्द्र हित एषिणी॥ ॥१२॥
रूप यौवन दृप्तानाम् दक्षिणानाम् च मानद ।नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि॥ ॥१३॥
कालो निःसंशयो नूनम् जीवित अंतकरः तव ।बलात् येन अवपन्नो असि सुग्रीवस्य अवशो वशम्॥ ॥१४॥
अस्थाने वालिनम् हत्वा युध्यमानम् परेण च ।न संतप्यति काकुत्स्थः कृत्वा सुगर्हितम्॥ ॥१५॥
वैधव्यम् शोक संतापम् कृपणम् अकृपणा सती ।अदुह्ख उपचिता पूर्वम् वर्तयिष्यामि अनाथवत्॥ ॥१६॥
लालितः च अंगदो वीरः सुकुमारः सुखोचितः ।वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध मूर्च्छिते॥ ॥१७॥
कुरुष्व पितरम् पुत्र सुदृष्टम् धर्म वत्सलम् ।दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति॥ ॥१८॥
समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे ।मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितो हि असि॥ ॥१९॥
रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता ।आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे॥ ॥२०॥
सकामो भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे ।भुंक्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुः तव॥ ॥२१॥
किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे ।इमाः पश्य वरा बह्वयः भार्याः ते वानरेश्वर॥ ॥२२॥
तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः ।परिगृह्य अंगदम् दीना दुह्ख आर्ताः परिचुक्रुशुः॥ ॥२३॥
किम् अंगदम् स अंगद वीर बाहोविहाय यातो असि अद्य चिरम् प्रवासम् ।न युक्तम् एवम् गुण संनिकृष्टम्विहाय पुत्रम् प्रिय पुत्रम् प्रिय चारु वेषम्॥ ॥२४॥
यदि अप्रियम् किंचिद् असंप्रधार्यकृतम् मया स्यात् तव दीर्घ बाहो ।क्षमस्व मे तत् हरि वम्श नाथव्रजामि मूर्ध्ना तव वीर पादौ॥ ॥२५॥
तथा तु तारा करुणम् रुदंतीभर्तुः समीपे सह वानरीभिः ।व्यवस्यत प्रायम् अनिन्द्य वर्णाउपोपवेष्टुम् भुवि यत्र वाली॥ ॥२६॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 20

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0