Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
ततः समुपजिघ्रंती कपि राजस्य तत् मुखम् ।पतिम् लोकश्रुता तारा मृतम् वचनम् अब्रवीत्॥ ॥१॥
शेषे त्वम् विषमे दुःखम् अकृत्वा वचनम् मम ।उपल उपचिते वीर सुदुःखे वसुधा तले॥ ॥२॥
मत्तः प्रियतरा नूनम् वानरेन्द्र मही तव ।शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे॥ ॥३॥
सुग्रीवस्य वशम् प्राप्तो विधिः एष भवत्य अहो ।सुग्रीव एव विक्रांतो वीर साहसिक प्रिय॥ ॥४॥
ऋक्ष वानर मुख्याः त्वाम् बलिनम् पर्युपासते ।तेषाम् विलपितम् कृच्छ्रम् अंगदस्य च शोचतः॥ ॥५॥
मम च इमा गिरः श्रुत्वा किम् त्वम् न प्रतिबुध्यसे ।इदम् तत् वीर शयनम् तत्र शेषे हतो युधि॥ ॥६॥
शायिता निहता यत्र त्वया एव रिपवः पुरा ।विशुद्ध सत्त्व अभिजन प्रिययुद्ध मम प्रिय॥ ॥७॥
माम् अनाथाम् विहाय एकाम् गतः त्वम् असि मानद ।शूराय न प्रदातव्या कन्या खलु विपश्चिता॥ ॥८॥
शूर भार्याम् हताम् पश्य सद्यो माम् विधवाम् कृताम् ।अवभग्नः च मे मानो भग्ना मे शाश्वती गतिः॥ ॥९॥
अगाधे च निमग्ना अस्मि विपुले शोक सागरे ।अश्म सारमयम् नूनम् इदम् मे हृदयम् दृढम्॥ ॥१०॥
भर्तारम् निहतम् दृष्ट्वा यत् न अद्य शतधा गतम् ।सुहृत् चैव हि भर्ता च प्रकृत्या च मम प्रियः॥ ॥११॥
प्रहारे च पराक्रान्तः शूरः पंचत्वम् आगतः ।पति हीना तु या नारी कामम् भवतु पुत्रिणी॥ ॥१२॥
धन धान्य समृद्धा अपि विधवा इति उच्यते जनैः ।स्व गात्र प्रभवे वीर शेषे रुधिर मण्डले॥ ॥१३॥
कृमि राग परिस्तोमे स्वकीये शयने यथा ।रेणु शोणित संवीतम् गात्रम् तव समंततः॥ ॥१४॥
परिरब्धुम् न शक्नोमि भुजाभ्याम् प्लवगर्षभ ।कृत कृत्यो अद्य सुग्रीवो वैरे अस्मिन् अतिदारुणे॥ ॥१५॥
यस्य राम विमुक्तेन हृतम् एक इषुणा भयम् ।शरेण हृदि लग्नेन गात्र संस्पर्शने तव॥ ॥१६॥
वार्यामि त्वाम् निरीक्षन्ती त्वयि पंचत्वम् आगते ।उद्बबर्ह शरम् नीलः तस्य गात्र गतम् तदा॥ ॥१७॥
गिरि गह्वर संलीनम् दीप्तम् आशी विषम् यथा ।तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः॥ ॥१८॥
अस्त मस्तक संरुद्धो रश्मिः दिनकरात् इव ।पेतुः क्षतज धाराः तु व्रणेभ्यः तस्य सर्वशः॥ ॥१९॥
ताम्र गैरिक संपृक्ता धारा इव धरा धरात् ।अवकीर्णम् विमार्जन्ती भर्तारम् रण रेणुना॥ ॥२०॥
अस्रैः नयनजैः शूरम् सिषेच अस्त्र समाहतम् ।रुधिरोक्षित सर्वान्गम् दृष्ट्वा विनिहतम् पतिम्॥ ॥२१॥
उवाच तारा पिंगाक्षम् पुत्रम् अंगदम् अंगना ।अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सुदारुणाम्॥ ॥२२॥
संप्रसक्तस्य वैरस्य गतो अन्तः पाप कर्मणा ।बाल सूर्योज्ज्वल तनुम् प्रयातम् यम सादनम्॥ ॥२३॥
अभिवादय राजानम् पितरम् पुत्र मानदम् ।एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः॥ ॥२४॥
भुजाभ्याम् पीन वृताभ्याम् अंगदो अहम् इति ब्रुवन् ।अभिवादयमानम् त्वाम् अंगदम् त्वम् यथा पुरा॥ ॥२५॥
दीर्घ आयुर् भव पुत्र इति किम् अर्थम् न अभिभाषसे ।अहम् पुत्र सहाया त्वाम् उपासे गत चेतनम् ।सिंहेन पातितम् सद्यो गौः स वत्सा इव गो वृषम्॥ ॥२६॥
इष्ट्वा संग्राम यज्ञेन राम प्रहरण अंभसा ।अस्मिन् अवभृथे स्नातः कथम् पत्न्या मया विना॥ ॥२७॥
या दत्ता देव राजेन तव तुष्टेन संयुगे ।शात कौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि न इह किम्॥ ॥२८॥
राज्यश्रीः न जहाति त्वाम् गत असुम् अपि मानद ।सूर्यस्य आवर्तमानस्य शैल राजम् इव प्रभा॥ ॥२९॥
न मे वचः पथ्यम् इदम् त्वया कृतम्न च अस्मि शक्ता हि निवारणे तव ।हता सपुत्रा अस्मि हतेन संयुगेसह त्वया श्रीः विजहाति माम् अपि॥ ॥३०॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 23

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0