Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम्॥ ॥१॥
शार्दूल मृग संघुष्टम् सिंहैः भीम रवैः वृतम् ।नाना गुल्म लता गूढम् बहु पादप संकुलम्॥ ॥२॥
ऋक्ष वानर गोपुच्छैः मार्जारैः च निषेवितम् ।मेघ राशि निभम् शैलम् नित्यम् शुचिकरम् शिवम्॥ ॥३॥
तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् ।प्रत्यगृह्णीत वासार्थम् रामः सौमित्रिणा सह॥ ॥४॥
कृत्वा च समयम् रामः सुग्रीवेण सह अनघ ।काल युक्तम् महद् वाक्यम् उवाच रघुनन्दन॥ ॥५॥
विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मि वर्धनम् ।इयम् गिरि गुहा रम्या विशाला युक्त मारुता॥ ॥६॥
अस्याम् वस्त्याम सौमित्रे वर्ष रात्रम् अरिंदम ।गिरि शृंगम् इदम् रम्यम् उत्तमम् पार्थिवात्मज॥ ॥७॥
श्वेताभिः कृष्ण ताम्राभिः शिलाभिः उपशोभितम् ।नाना धातु समाकीर्णम् नदी दर्दुर संयुतम्॥ ॥८॥
विविधैः वृक्ष षण्डैः च चारु चित्र लता युतम् ।नाना विहग संघुष्टम् मयूर वर नादितम्॥ ॥९॥
मालती कुंद गुल्मैः च सिंदुवारैः शिरीषकैः ।कदंब अर्जुन सर्जैः च पुष्पितैः उपशोभितम्॥ ॥१०॥
इयम् च नलिनि रम्या फुल्ल पंकज मण्डितैः ।न अति दूरे गुहाया नौ भविष्यति नृपात्मज॥ ॥११॥
प्राग् उदक् प्रवणे देशे गुहा साधु भविष्यति ।पश्चात् च एव उन्नता सौम्य निवाते अयम् भविष्यति॥ ॥१२॥
गुहा द्वारे च सौमित्रे शिला सम तला शिवा ।कृष्णा च एव आयता चैव भिन्न अंजन चय उपममा॥ ॥१३॥
गिरि शृंगम् इदम् तात पश्य च उत्तरतः सुभम् ।भिन्न अंजन चय आकारम् अंभोधरम् इव उदितम्॥ ॥१४॥
दक्षिणस्याम् अपि दिश स्थितम् श्वेतम् इव अंबरम् ।कैलास शिखर प्रख्यम् नाना धातु विराजितम्॥ ॥१५॥
प्राचीन वाहिनीम् चैव नदीम् भृशम् अकर्दमम् ।गुहायाः परतः पश्य त्रिकूटे जह्नवीम् इव॥ ॥१६॥
चन्दनैः तिलकैः सालैः तमालैः अतिमुक्तकैः ।पद्मकैः सरलैः चैव अशोकैः चैव शोभितम्॥ ॥१७॥
वानीरैः तिमिदैः चैव वकुलैः केतकैः अपि ।हिन्तालैः तिनिशैः नीपैः वेतसैः कृतमालकैः॥ ॥१८॥
तीरजैः शोभिता भाति नाना रूपैः ततः ततः ।वसन आभरण उपेत प्रमद एव अभ्यलंकृता॥ ॥१९॥
शतशः पक्षि सन्घैः च नाना नाद विनादिता ।एकैकम् अनुरक्तैः च चक्रवाकैः अलंकृता॥ ॥२०॥
पुलिनैः अति रम्यैः च हंस सारस सेविता ।प्रहसंती इव भाति एषा नारी रत्न विभूषिता॥ ॥२१॥
क्वचित् नीलोत्पलैः च्छन्न भाति रक्तोत्पलैः क्वचित् ।क्वचित् भाति शुक्लैः च दिव्यैः कुमुद कुड्मलैः॥ ॥२२॥
पारिप्लव शतैः जुष्टा बर्हि क्रौन्च विनादिता ।रमणिया नदी सौम्य मुनि संघ निषेविता॥ ॥२३॥
पश्य चंदन वृक्षाणाम् पंक्ती सुरुचिरा इव ।ककुभानम् च दृश्यन्ते मनसा इव उदिताः समम्॥ ॥२४॥
अहो सुरमणीयो अयम् देशः शत्रु निषूदन ।दृढम् रंस्याव सौमित्रे साधु अत्र निवसावहे॥ ॥२५॥
इतः च न अति दूरे सा किष्किंधा चित्र कानना ।सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज॥ ॥२६॥
गीत वादित्र निर्घोषः श्रूयते जयताम् वर ।नदताम् वानराणाम् च मृदंग आडंबरैः सह॥ ॥२७॥
लब्ध्वा भार्याम् कपिवरः प्राप्य राज्यम् सुहृत् वृतः ।ध्रुवम् नंदति सुग्रीवः संप्राप्य महतीम् श्रियम्॥ ॥२८॥
इति उक्त्वा न्यवसत् तत्र राघवः सह लक्ष्मणः ।बहु दृश्य दरी कुंजे तस्मिन् प्रस्रवणे गिरौ॥ ॥२९॥
सुसुखे हि बहु द्रव्ये तस्मिन् हि धरणी धरे ।वसतः तस्य रामस्य रतिः अल्पा अपि न अभवत्॥ ॥३०॥
हृताम् हि भार्याम् स्मरतः प्राणेभ्यो अपि गरीयसीम् ।उदय अभ्युदितम् दृष्ट्वा शशांकम् च विशेषतः॥ ॥३१॥
आविवेश न तम् निद्रा निशासु शयनम् गतम् ।तत् समुत्थेन शोकेन बाष्प उपहत चेतसम्॥ ॥३२॥
तम् शोचमानम् काकुत्स्थम् नित्यम् शोक परायणम् ।तुल्य दुःखो अब्रवीद् भ्राता लक्ष्मणो अनुनयम् वचः॥ ॥३३॥
अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि ।शोचतो हि अवसीदन्ति सर्व अर्था विदितम् हि ते॥ ॥३४॥
भवान् क्रिया परो लोके भवान् देव परायणः ।आस्तिको धर्म शीलः च व्यवसायी च राघव॥ ॥३५॥
न हि अव्यवसितः शत्रुम् राक्षसम् तम् विशेषतः ।समर्थः त्वम् रणे हन्तुम् विक्रमैः जिह्म कारिणम्॥ ॥३६॥
समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरी कुरु ।ततः सपरिवारम् तम् राक्षसम् हन्तुम् अर्हसि॥ ॥३७॥
पृथिवीम् अपि काकुत्स्थ ससागर वन अचलाम् ।परिवर्तयितुम् शक्तः किम् पुनः तम् हि रावणम्॥ ॥३८॥
शरत् कालम् प्रतीक्षस्व प्रावृट् कालो अयम् आगतः ।ततः स राष्ट्रम् स गणाम् रावणम् तम् वधिष्यसि॥ ॥३९॥
अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये ।दीप्तैः आहुतिभिः काले भस्म चन्नम् इव अनलम्॥ ॥४०॥
लक्ष्मणस्य हि तद् वाक्यम् प्रतिपूज्य हितम् शुभम् ।राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत्॥ ॥४१॥
वाच्यम् यद् अनुरक्तेन स्निग्धेन च हितेन च ।सत्य विक्रम युक्तेन तद् उक्तम् लक्ष्मण त्वया॥ ॥४२॥
एष शोकः परित्यक्तः सर्व कार्य अवसादकः ।विक्रमेषु अप्रतिहतम् तेजः प्रोत्साहयामि अहम्॥ ॥४३॥
शरत् कालम् प्रतीक्षिष्ये स्थितो अस्मि वचने तव ।सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन्॥ ॥४४॥
उपकारेण विरः तु प्रतिकारेण युज्यते ।अकृतज्ञो अप्रतिकृतो हन्ति सत्ववताम् मनः॥ ॥४५॥
तत् एव युक्तम् प्रणिधाय लक्ष्मणःकृत अंजलि तत् प्रतिपूजय भाषितम् ।उवाच रामम् स्वभिराम दर्शनम्प्रदर्शयन् दर्शनम् आत्मनः शुभम्॥ ॥४६॥
यथोक्तम् एतत् तव सर्वम् ईप्सितम्नरेन्द्र कर्ता न चिरात् तु वानर ।शरत् प्रतीक्षः क्षमताम् इमम् भवान्जल प्रपातम् रिपु निग्रहे धृतः॥ ॥४७॥
नियम्य कोपम् प्रतिपाल्यताम् शरत्क्षमस्व मासाम् चतुरो मया सह ।वस अचले अस्मिन् मृग राज सेवितेसंवर्तयन् शत्रु वधे समर्थः॥ ॥४८॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 27

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0