Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
समीक्ष्य विमलम् व्योम गत विद्युत् बलाहकम् ।सारसा आकुल संघुष्टम् रम्य ज्योत्स्ना अनुलेपनम्॥ ॥१॥
समृद्ध अर्थम् च सुग्रीवम् मन्द धर्मार्थ संग्रहम् ।अत्यर्थम् च असताम् मार्गम् एकांत गत मानसम्॥ ॥२॥
निवृत्त कार्यम् सिद्धार्थम् प्रमद अभिरतम् सदा ।प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान्॥ ॥३॥
स्वाम् च पात्नीम् अभिप्रेताम् ताराम् च अपि समीप्सिताम् ।विहरंतम् अहो रात्रम् कृतार्थम् विगत ज्वरम्॥ ॥४॥
क्रीडन्तम् इव देवेशम् गन्धर्व अप्सरसाम् गणैः ।मंत्रिषु न्यस्त कार्यम् च मंत्रिणाम् अनवेक्षकम्॥ ॥५॥
उच्छिन्न राज्य संदेहम् काम वृत्तम् इव स्थितम् ।निश्चित अर्थो अर्थ तत्त्वज्ञः काल धर्म विशेष वित्॥ ॥६॥
प्रसाद्य वाक्यैः मधुरैः हेतुमद्भिः मनो रमैः ।वाक्यवित् वाक्य तत्त्वज्ञम् हरीशम् मारुतात्मजः॥ ॥७॥
हितम् तथ्यम् च पथ्यम् च साम धर्म अर्थ नीतिमत् ।प्रणय प्रीति संयुक्तम् विश्वास कृत निश्चयम्॥ ॥८॥
हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् ।राज्यम् प्राप्तम् यशः चैव कौली श्रीः अभिवर्थिता॥ ॥९॥
मित्राणाम् संग्रहः शेषः तत् भवान् कर्तुम् अर्हति ।यो हि मित्रेषु कालज्ञः सततम् साधु वर्तते॥ ॥१०॥
तस्य राज्यम् च कीर्तिः च प्रतापः च अपि वर्धते ।यस्य कोशः च दण्डः च मित्राणि आत्मा च भूमिप ।समानि एतानि सर्वाणि स राज्यम् महत् अश्नुते॥ ॥११॥
तत् भवान् वृत्त संपन्नः स्थितः पथि निरत्यये ।मित्रार्थम् अभिनीतार्थम् यथावत् कर्तुम् अर्हति॥ ॥१२॥
संत्यज्य सर्व कर्माणि मित्रार्थम् यो न वर्तते ।संभ्रमात् हि कृत उत्साहः सः अनर्थेन अवरुध्यते॥ ॥१३॥
यो हि काल व्यतीतेषु मित्र कार्येषु वर्तते ।स कृत्वा महतो अपि अर्थान् न मित्रार्थेन युज्यते॥ ॥१४॥
तत् इदम् मित्रकार्यम् नः काल अतीतम् अरिंदम ।क्रियताम् राघवस्य एतत् वैदेह्याः परिमार्गणम्॥ ॥१५॥
न च कालम् अतीतम् ते निवेदयति कालवित् ।त्वरमाणो अपि स प्राज्ञः तव राजन् वशानुगः॥ ॥१६॥
कुलस्य हेतुः स्फीतस्य दीर्घ बन्धुः च राघवः ।अप्रमेय प्रभावः च स्वयम् च अप्रतिमो गुणैः॥ ॥१७॥
तस्य त्वम् कुरु वै कार्यम् पूर्वम् तेन कृतम् तव ।हरीश्वर हरि श्रेष्ठान् आज्ञापयितुम् अर्हसि॥ ॥१८॥
न हि तावत् भवेत् कालो व्यतीतः चोदनात् ऋते ।चोदितस्य हि कार्यस्य भवेत् काल व्यतिक्रमः॥ ॥१९॥
अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर ।किम् पुनः प्रतिकर्तुः ते राज्येन च वधेन च॥ ॥२०॥
शक्तिमान् अतिविक्रान्तो वानर ऋष्क गण ईश्वर ।कर्तुम् दाशरथेः प्रीतिम् आज्ञायाम् किम् नु सज्जसे॥ ॥२१॥
कामम् खलु शरैः शक्तः सुर असुर महा उरगान् ।वशे दाशरथिः कर्तुम् त्वत् प्रतिज्ञाम् अवेक्षते॥ ॥२२॥
प्राण त्याग अविशंकेन कृतम् तेन महत् प्रियम् ।तस्य मार्गाम वैदेहीम् पृथिव्याम् अपि च अंबरे॥ ॥२३॥
न देवा न च गंधर्वा न असुरा न मरुत् गणाः ।न च यक्षा भयम् तस्य कुर्युः किम् इव राक्षसाः॥ ॥२४॥
तत् एवम् शक्ति युक्तस्य पूर्वम् प्रिय कृतः तथा ।रामस्य अर्हसि पिंगेश कर्तुम् सर्व आत्मना प्रियम्॥ ॥२५॥
न अधस्तात् अवनौ न अप्सु गतिः न उपरि च अम्बरे ।कस्यचित् सज्जते अस्माकम् कपीश्वर तव आज्ञया॥ ॥२६॥
तत् आज्ञापय कः किम् ते कुतो वा अपि व्यवस्यतु ।हरयो हि अप्रधृष्याः ते सन्ति कोटि अग्रतो अनघ॥ ॥२७॥
तस्य तद् वचनम् श्रुत्वा काले साधु निरूपितम् ।सुग्रीवः सत्त्व संपन्नः चकार मतिम् उत्तमाम्॥ ॥२८॥
संदिदेश अति मति मान् नीलम् नित्य कृत उद्यमम् ।दिक्षु सर्वासु सर्वेषाम् सैन्यानाम् उपसंग्रहे॥ ॥२९॥
यथा सेना समग्रा मे यूथपालाः च सर्वशः ।समागच्छन्ति असंगेन सेनाग्राणि तथा कुरु॥ ॥३०॥
ये तु अंतपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।समानयंतु ते शीघ्रम् त्वरिताः शासनात् मम ।स्वयम् च अनंतरम् सैन्यम् भवान् एव अनुपश्यतु॥ ॥३१॥
त्रि पंच रात्रात् ऊर्ध्वम् यः प्राप्नुयात् इह वानरः ।तस्य प्राण अन्तिको दण्डो न अत्र कार्या विचारणा॥ ॥३२॥
हरीन् च वृद्धान् उपयातु स अंगदोभवान् मम आज्ञाम् अधिकृत्य निश्चितम् ।इति व्यवस्थाम् हरि पुंगव ईश्वरोविधाय वेश्म प्रविवेश वीर्यवान्॥ ॥३३॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 29

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0