Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
इति उक्तः तारया वाक्यम् प्रश्रितम् धर्म संहितम् ।मृदु स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः॥ ॥१॥
तस्मिन् प्रतिगृहीते तु वाक्ये हरि गण ईश्वरः ।लक्ष्मणात् सुमहत् त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत्॥ ॥२॥
ततः कण्ठ गतम् माल्यम् चित्रम् बहु गुणम् महत् ।चिच्छेद विमदः च आसीत् सुग्रीवो वानर ईश्वरः॥ ॥३॥
स लक्ष्मणम् भीम बलम् सर्व वानर सत्तमः ।अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः संप्रहर्षयन्॥ ॥४॥
प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।राम प्रसादात् सौमित्रे पुनः च आप्तम् इदम् मया॥ ॥५॥
कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।तादृशम् प्रतिकुर्वीत अंशेन अपि नृपात्मज॥ ॥६॥
सीताम् प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।सहाय मात्रेण मया राघवः स्वेन तेजसा॥ ॥७॥
सहाय कृत्यम् किम् तस्य येन सप्त महाद्रुमाः ।शैलः च वसुधा चैव बाणेन एकेन दारिताः॥ ॥८॥
धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।स शैला कम्पिता भूमिः सहायैः किम् नु तस्य वै॥ ॥९॥
अनुयात्राम् नर इन्द्रस्य करिष्ये अहम् नरषभ ।गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम्॥ ॥१०॥
यदि किंचित् अतिक्रान्तम् विश्वासात् प्रणयेन वा ।प्रेष्यस्य क्षमितव्यम् मे न कश्चिन् न अपराध्यति॥ ॥११॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।अभवत् लक्ष्मणः प्रीतः प्रेम्णा च इदम् उवाच ह॥ ॥१२॥
सर्वथा हि मम भ्राता स नाथो वानरेश्वर ।त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥ ॥१३॥
यः ते प्रभावः सुग्रीव यत् च ते शौचम् ईदृशम् ।अर्हः तम् कपि राज्यस्य श्रियम् भोक्तुम् अनुत्तमाम्॥ ॥१४॥
सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।वधिष्यति रणे शत्रून् अचिरात् न अत्र संशयः॥ ॥१५॥
धर्मज्ञस्य कृतज्ञस्य संग्रामेषु अनिवर्तिनः ।उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम्॥ ॥१६॥
दोषज्ञः सति सामर्थ्ये को अन्यो भाषितुम् अर्हति ।वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर सत्तम॥ ॥१७॥
सदृशः च असि रामस्य विक्रमेण बलेन च ।सहायो दैवतैः दत्तः चिराय हरि पुंगव॥ ॥१८॥
किम् तु शीघ्रम् इतो वीर निष्क्राम त्वम् मया सह ।सान्त्वयस्व वयस्यम् च भार्या हरण दुःखितम्॥ ॥१९॥
यत् च शोक अभिभूतस्य श्रुत्वा रामस्य भाषितम् ।मया त्वम् परुषाणि उक्तः तत् क्षमस्व सखे मम॥ ॥२०॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 36

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0