Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
इति ब्रुवाणम् सुग्रीवम् रामो धर्मभृताम् वरः ।बाहुभ्याम् संपरिष्वज्य प्रत्युवाच कृतांजलिम्॥ ॥१॥
यत् इन्द्रो वर्षते वर्षम् न तत् चित्रम् भविष्यति ।आदित्यो असौ सहस्रांशुः कुर्यात् वितिमिरम् नभः॥ ॥२॥
चन्द्रमा रजनीम् कुर्यात् प्रभया सौम्य निर्मलाम् ।त्वत् विधो वा अपि मित्राणाम् प्रीतिम् कुर्यात् परंतप॥ ॥३॥
एवम् त्वयि तत् न चित्रम् भवेत् यत् सौम्य शोभनम् ।जानामि अहम् त्वाम् सुग्रीव सततम् प्रिय वादिनम्॥ ॥४॥
त्वत् स नाथः सखे संख्ये जेता अस्मि सकलान् अरीन् ।त्वम् एव मे सुहृत् मित्रम् साहाय्यम् कर्तुम् अर्हसि॥ ॥५॥
जहार आत्म विनाशाय वैदेहीम् राक्षस अधमः ।वंचयित्वा तु पौलोमीम् अनुह्लादो यथा शचीम्॥ ॥६॥
न चिरात् तम् हनिष्यामि रावणम् निशितैः शरैः ।पौलोम्याः पितरम् दृप्तम् शत क्रतुः इव अरिहा॥ ॥७॥
एतस्मिन् अन्तरे च एव रजः समभिवर्तत ।उष्णाम् तीव्राम् सहस्रांशोः छादयत् गगने प्रभाम्॥ ॥८॥
दिशः पर्याकुलाः च आसन् तमसा तेन दूषिताः ।चचाल च मही सर्वा स शैल वन कानना॥ ॥९॥
ततो नगेन्द्र संकाशैः तीक्ष्ण दन्ष्ट्रैः महाबलैः ।कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः॥ ॥१०॥
निमेष अंतर मात्रेण ततः तैः हरि यूथपैः ।कोटी शत परीवारैः कामरूपिभिः आवृता॥ ॥११॥
नादेयैः पार्वतेयैः च सामुद्रैः च महाबलैः ।हरिभिः मेघ निर्ह्रादैः अन्यैः च वन वासिभिः॥ ॥१२॥
तरुण आदित्य वर्णैः च शशि गौरैः च वानरैः ।पद्म केसर वर्णैः च श्वेतैः मेरु कृत आलयैः॥ ॥१३॥
कोटी सहस्रैः दशभिः श्रीमान् परिवृतः तदा ।वीरः शतबलिः नाम वानरः प्रत्यदृश्यत॥ ॥१४॥
ततः कांचन शैल आभः ताराया वीर्यवान् पिता ।अनेकैः बहु साहस्रैः कोटिभिः प्रत्यदृश्यत॥ ॥१५॥
तथा अपरेण कोटीनाम् साहस्रेण समन्वितः ।पिता रुमयाः संप्राप्तः सुग्रीव श्वशुरो विभुः॥ ॥१६॥
पद्म केसर संकाशः तरुण अर्क निभ आननः ।बुद्धिमान् वानर श्रेष्ठः सर्व वानर सत्तमः॥ ॥१७॥
अनीकैः बहु साहस्रैः वानराणाम् समन्वितः ।पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत॥ ॥१८॥
गो लांगूल महाराजो गवाक्षो भीम विक्रमः ।वृतः कोटि सहस्रेण वानराणाम् अदृश्यत॥ ॥१९॥
ऋक्षाणाम् भीम वेगानाम् धूम्रः शत्रु निबर्हणः ।वृतः कोटि सहस्राभ्याम् द्वाभ्याम् समभिवर्तत॥ ॥२०॥
महा अचल निभैः घोरैः पनसो नाम यूथपः ।आजगाम महावीर्यः तिसृभिः कोटिभिः वृतः॥ ॥२१॥
नील अंजन चय आकारो नीलो नाम अथ यूथपः ।अदृश्यत महाकायः कोटिभिः दशभिः वृतः॥ ॥२२॥
ततः कांचन आभो गवयो नाम यूथपः ।आजगाम महावीर्यः कोटिभिः पंचभिः वृतः॥ ॥२३॥
दरीमुखः च बलवान् यूथपो अभ्याययौ तदा ।वृतः कोटि सहस्रेण सुग्रीवम् समुपस्थितः॥ ॥२४॥
मैन्दः च द्विविदः च उभौ अश्वि पुत्रौ महाबलौ ।कोटि कोटि सहस्रेण वानराणाम् अदृश्यताम्॥ ॥२५॥
गजः च बलवान् वीरः त्रिसृभिः कोटिभिः वृतः ।आजगाम महातेजाः सुग्रीवस्य समीपतः॥ ॥२६॥
ऋक्ष राजो महातेजा जांबवान् नाम नामतः ।कोटिभिः दशभिः व्याप्तः सुग्रीवस्य वशे स्थितः॥ ॥२७॥
रुमणो नाम तेजस्वी विक्रान्तैः वानरैः वृतः ।आगतो बलवान् तूर्णम् कोटि शत समावृतः॥ ॥२८॥
ततः कोटि सहस्राणाम् सहस्रेण शतेन च ।पृष्ठतो अनुगतः प्राप्तो हरिभिः गंधमादनः॥ ॥२९॥
ततः पद्म सहस्रेण वृतः शन्कु शतेन च ।युव राजो अंगदः प्राप्तः पितृ तुल्य पराक्रमः॥ ॥३०॥
ततः तारा द्युतिः तारो हरिः भीम पराक्रमः ।पंचभिः हरि कोटीभिः दूरतः प्रत्यदृश्यत॥ ॥३१॥
इन्द्रजानुः कपिः वीरो यूथपः प्रत्यदृश्यत ।एकादशानाम् कोटीनाम् ईश्वरः तैः च सम्वृतः॥ ॥३२॥
ततो रंभः तु अनुप्राप्तः तरुण आदित्य संनिभः ।आयुतेन वृतः चैव सहस्रेण शतेन च॥ ॥३३॥
ततो यूथ पतिः वीरो दुर्मुखो नाम वानरः ।प्रत्यदृश्यत कोटिभ्याम् द्वाभ्याम् परिवृतो बली॥ ॥३४॥
कैलास शिखर आकारैः वानरैः भीम विक्रमैः ।वृतः कोटि सहस्रेण हनुमान् प्रत्यदृश्यत॥ ॥३५॥
नलः च अपि महावीर्यः संवृतो द्रुम वासिभिः ।कोटी शतेन संप्राप्तः सहस्रेण शतेन च॥ ॥३६॥
ततो दधिमुखः श्रीमान् कोटिभिः दशभिः वृतः ।संप्राप्तो अभिनदन् तस्य सुग्रीवस्य महात्मनः॥ ॥३७॥
शरभः कुमुदो वह्निः वानरो रंहः एव च ।एते च अन्ये च बहवो वानराः काम रूपिणः॥ ॥३८॥
आवृत्य पृथिवीम् सर्वाम् पर्वतान् च वनानि च ।यूथपाः समनुप्राप्ता एषाम् संख्या न विद्यते॥ ॥३९॥
आगताः च निविष्टाः च पृथिव्याम् सर्व वानराः ।आप्लवंतः प्लवंतः च गर्जंतः च प्लवंगमाः ।अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र गणा इव॥ ॥४०॥
कुर्वाणा बहु शब्दान् च प्रकृष्टा बलशालिनः ।शिरोभिः वानरेन्द्राय सुग्रीवाय न्यवेदयन्॥ ॥४१॥
अपरे वानर श्रेष्ठाः संगम्य च यथा उचितम् ।सुग्रीवेण समागम्य स्थिताः प्रांजलयः तदा॥ ॥४२॥
सुग्रीवः त्वरितो रामे सर्वान् तान् वानरर्षभान् ।निवेदयित्वा धर्मज्ञः स्थितः प्रान्जलिः अब्रवीत्॥ ॥४३॥
यथा सुखम् पर्वत निर्झरेषुवनेषु सर्वेषु च वानरेन्द्राः ।निवेशयित्वा विधिवत् बलानिबलम् बलज्ञः प्रतिपत्तुम् ईष्टे॥ ॥४४॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 39

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0