Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
विशेषेण तु सुग्रीवो हनूमति अर्थम् उक्तवान् ।स हि तस्मिन् हरि श्रेष्ठे निश्चितार्थो अर्थ साधने॥ ॥१॥
अब्रवीत् च हनूमंतम् विक्रंतम् अनिल आत्मजम् ।सुग्रीवः परम प्रीतः प्रभुः सर्व वन ओकसाम्॥ ॥२॥
न भूमौ न अंतरिक्षे वा न अंबरे न अमर आलये ।न अप्सु वा गति संगम् ते पश्यामि हरि पुम्गव॥ ॥३॥
स असुराः सह गंधर्वाः स नाग नर देवताः ।विदिताः सर्व लोकाः ते स सागर धरा धराः॥ ॥४॥
गतिः वेगः च तेजः च लाघवम् च महाकपे ।पितुः ते सदृशम् वीर मारुतस्य महा ओजसः॥ ॥५॥
तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते ।तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिंतय॥ ॥६॥
त्वयि एव हनुमन् अस्ति बलम् बुद्धिः पराक्रमः ।देश काल अनुवृत्तिः च नयः च नय पण्डित॥ ॥७॥
ततः कार्य समासंगम् अवगम्य हनूमति ।विदित्वा हनुमन्तम् च चिन्तयामास राघवः॥ ॥८॥
सर्वथा निश्चित अर्थो अयम् हनूमति हरि ईश्वरः ।निश्चित अर्थतरः च अपि हनूमान् कार्य साधने॥ ॥९॥
तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः ।भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः॥ ॥१०॥
तम् समीक्ष्य महातेजा व्यवसायोत्तरम् हरिम् ।कृतार्थ इव संहृष्टः प्रहृष्ट इन्द्रिय मानसः॥ ॥११॥
ददौ तस्य ततः प्रीतः स्व नामांक उपशोभितम् ।अंगुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः॥ ॥१२॥
अनेन त्वाम् हरिश्रेष्ठ चिह्नेन जनकाअत्मजा ।मत् सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति॥ ॥१३॥
व्यवसायः च ते वीर सत्त्व युक्तः च विक्रमः ।सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे॥ ॥१४॥
स तत् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः ।वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः॥ ॥१५॥
स तत् प्रकर्षन् हरिणाम् महत् बलम्बभूव वीरः पवनात्मजः कपिः ।गत अंबुदे व्योम्नि विशुद्ध मण्डलःशशी इव नक्षत्र गणोपशोभितः॥ ॥१६॥
अतिबल बलम् आश्रितः तव अहम्हरि वर विक्रम विक्रमैः अनल्पैः ।पवन सुत यथा अधिगम्यते साजनक सुता हनुमन् तथा कुरुष्व॥ ॥१७॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 44

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0