Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
तथा ब्रुवति तारे तु तारा अधिपति वर्चसि ।अथ मेने हृतम् राज्यम् हनुमान् अंगदेन तत्॥ ॥१॥
बुद्ध्या हि अष्ट अंगया युक्तम् चतुर् बल समन्वितम् ।चतुर् दश गुणम् मेने हनुमान् वालिनः सुतम्॥ ॥२॥
आपूर्यमाणम् शश्वत् च तेजो बल पराक्रमैः ।शशिनम् शुक्ल पक्ष आदौ वर्धमानम् इव श्रिया॥ ॥३॥
बृहस्पति समम् बुद्ध्या विक्रमे सदृशम् पितुः ।शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम्॥ ॥४॥
भर्तुः अर्थे परिश्रान्तम् सर्व शास्त्र विशारदः ।अभिसंधातुम् आरेभे हनुमान् अंगदम् ततः॥ ॥५॥
स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् ।भेदयामास तान् सर्वान् वानरान् वाक्य संपदा॥ ॥६॥
तेषु सर्वेषु भिन्नेषु ततो अभीषय अंगदम् ।भीषणैः विविधैः वाक्यैः कोप उपाय समन्वितैः॥ ॥७॥
त्वम् समर्थ तरः पित्रा युद्धे तारेय वै ध्रुवम् ।दृढम् धारयितुम् शक्तः कपि राज्यम् यथा पिता॥ ॥८॥
नित्यम् अस्थिर चित्ता हि कपयो हरि पुंगव ।न आज्ञाप्यम् विषहिष्यन्ति पुत्र दारान् विना त्वया॥ ॥९॥
त्वाम् न एते हि अनुयुंजेयुः प्रत्यक्षम् प्रवदामि ते ।यथा अयम् जांबवान् नीलः सुहोत्रः च महाकपिः॥ ॥१०॥
न हि अहम् ते इमे सर्वे साम दान आदिभिः गुणैः ।दण्डेन न त्वया शक्याः सुग्रीवात् अपकर्षितुम्॥ ॥११॥
विगृह्य आसनम् अपि आहुः दुर्बलेन बलीयसा ।आत्म रक्षा करः तस्मात् न विगृह्णीत दुर्बलः॥ ॥१२॥
याम् च इमाम् मन्यसे धात्रीम् एतत् बिलम् इति श्रुतम् ।एतत् लक्ष्मण बाणानाम् ईषत् कार्यम् विदारणे॥ ॥१३॥
स्वल्पम् हि कृतम् इन्द्रेण क्षिपता हि अशनिम् पुरा ।लक्ष्मणो निशितैः बाणैः भिन्द्यात् पत्र पुटम् यथा॥ ॥१४॥
लक्ष्मणस्य च नाराचा बहवः सन्ति तत् विधाः ।वज्र अशनि सम स्पर्शा गिरीणाम् अपि दारकाः॥ ॥१५॥
अवस्थाने यदा एव त्वम् आसिष्यसि परंतप ।तदा एव हरयः सर्वे त्यक्ष्यन्ति कृत निश्चयाः॥ ॥१६॥
स्मरंतः पुत्र दाराणाम् नित्य उद्विग्ना बुभुक्षिताः ।खेदिता दुःख शय्याभिः त्वाम् करिष्यन्ति पृष्ठतः॥ ॥१७॥
स त्वम् हीनः सुहृद्भिः च हित कामैः च बंधुभिः ।तृणात् अपि भृश उद्विग्नः स्पंदमानात् भविष्यसि॥ ॥१८॥
अति उग्र वेगा निशिता घोरा लक्ष्मण सायकाः ।अपवृत्तम् जिघांसन्तो महावेगा दुरासदाः॥ ॥१९॥
अस्माभिः तु गतम् सार्धम् विनीतवत् उपस्थितम् ।आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वाम् स्थापयिष्यति॥ ॥२०॥
धर्म राजः पितृव्यः ते प्रीति कामो दृढ व्रतः ।शुचिः सत्य प्रतिज्ञः च स त्वाम् जातु न नाशयेत्॥ ॥२१॥
प्रिय कामः च ते मातुः तत् अर्थम् च अस्य जीवितम् ।तस्य अपत्यम् च न अस्ति अन्यत् तस्मात् अंगद गम्यताम्॥ ॥२२॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 54

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0