Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि स्थले ।हरयो गृध्र राजः च तम् देशम् उपचक्रमे॥ ॥१॥
सांपातिः नाम नाम्ना तु चिर जीवी विहंगमः ।भ्राता जटायुषः श्रीमान् प्रख्यात बल पौरुषः॥ ॥२॥
कंदरात् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत्॥ ॥३॥
विधिः किल नरम् लोके विधानेन अनुवर्तते ।यथा अयम् विहितो भक्ष्यः चिरात् मह्यम् उपागतः॥ ॥४॥
परंपराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् ।उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्॥ ॥५॥
तस्य तत् वचनम् श्रुत्वा भक्ष लुब्धस्य पक्षिणः ।अंगदः परम् आयस्तो हनूमंतम् अथ अब्रवीत्॥ ॥६॥
पश्य सीता - गृध्रा - अपदेशेन साक्षात् वैवस्वतो यमः ।इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये॥ ॥७॥
रामस्य न कृतम् कार्यम् न कृतम् राज शाशनम् ।हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता॥ ॥८॥
वैदेह्याः प्रिय कामेन कृतम् कर्म जटायुषा ।गृध्र राजेन यत् तत्र श्रुतम् वः तत् अशेषतः॥ ॥९॥
तथा सर्वाणि भूतानि तिर्यक् योनि गतानि अपि ।प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्॥ ॥१०॥
अन्योन्यम् उपकुर्वन्ति स्नेह कारुण्य यन्त्रिताः ।ततः तस्य उपकार अर्थम् त्यजत आत्मानम् आत्मना॥ ॥११॥
प्रियम् कृत्वा हि रामस्य धर्मज्ञेन जटायुषा ।राघव अर्थे परिश्रान्ता वयम् संत्यक्त जीविताः॥ ॥१२॥
कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।स सुखी गृध्र राजः तु रावणेन हतो रणे ।मुक्तः च सुग्रीव भयात् गतः च परमाम् गतिम्॥ ॥१३॥
जटायुषो विनाशेन राज्ञो दशरथस्य च ।हरणेन च वैदेह्याः संशयम् हरयो गताः॥ ॥१४॥
राम लक्ष्मणयोः वासाम् अरण्ये सह सीतया ।राघवस्य च बाणेन वालिनः च तथा वधः॥ ॥१५॥
राम कोपात् अशेषाणाम् राक्षसाम् च तथा वधम् ।कैकेय्या वर दानेन इदम् च विकृतम् कृतम्॥ ॥१६॥
तत् असुखम् अनुकीर्तितम् वचोभुवि पतितान् च निरीक्ष्य वानरान् ।भृश चकित मतिः महामतिःकृपणम् उदाहृतवान् स गृध्रराजः॥ ॥१७॥
तत् तु श्रुत्वा तदा वाक्यम् अंगदस्य मुख उद्गतम् ।अब्रवीत् वचनम् गृध्रः तीक्ष्ण तुण्डो महास्वनः॥ ॥१८॥
को अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे ।जटायुषो वधम् भ्रातुः कंपयन् इव मे मनः॥ ॥१९॥
कथम् आसीत् जनस्थाने युद्धम् राक्षस गृध्रयोः ।नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम्॥ ॥२०॥
इच्छेयम् गिरि दुर्गात् च भवद्भिः अवतारितुम् ।यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः॥ ॥२१॥
अति दीर्घस्य कालस्य परितुष्टो अस्मि कीर्तितनात् ।तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर ऋषभाः॥ ॥२२॥
भ्रातुः जटायुषः तस्य जनस्थान निवासिनः ।तस्य एव च मम भ्रातुः सखा दशरथः कथम्॥ ॥२३॥
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु जन प्रियः ।सूर्य अंशु दग्ध पक्षत्वात् न शक्नोमि विसर्पितुम् ।इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिन्दमाः॥ ॥२४॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 56

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0