Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
ततः तत् अमृत आस्वादम् गृध्र राजेन भाषितम् ।निशम्य मुदितो हृष्टाः ते वचः प्लवगर्षभाः॥ ॥१॥
जांबवान् वानर श्रेष्ठः सह सर्वैः प्लवंगमैः ।भू तलात् सहसा उत्थाय गृध्र राजानम् अब्रवीत्॥ ॥२॥
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।तत् आख्यातु भवान् सर्वम् गतिः भव वन ओकसाम्॥ ॥३॥
को दाशरथि बाणानाम् वज्र वेग निपातिनाम् ।स्वयम् लक्ष्मणम् मुक्तानाम् न चिंतयति विक्रमम्॥ ॥४॥
स हरीन् प्रति संयुक्तान् सीता श्रुति समाहितान् ।पुनः आश्वासयन् प्रीत इदम् वचनम् अब्रवीत्॥ ॥५॥
श्रूयताम् इह वैदेह्या यथा मे हरणम् श्रुतम् ।येन च अपि मम आख्यातम् यत्र च आयत लोचना॥ ॥६॥
अहम् अस्मिन् गिरौ दुर्गे बहु योजनम् आयते ।चिरात् निपतितो वृद्धः क्षीण प्राण पराक्रमः॥ ॥७॥
तम् माम् एवम् गतम् पुत्रः सुपार्श्वो नाम नामतः ।आहारेण यथा कालम् बिभर्ति पतताम् वरः॥ ॥८॥
तीक्ष्ण कामाः तु गंधर्वाः तीक्ष्ण कोपा भुजंगमाः ।मृगाणाम् तु भयम् तीक्ष्णम् ततः तीक्ष्ण क्षुधा वयम्॥ ॥९॥
स कदाचित् क्षुधा आर्तस्य मम आहार कान्क्षिणः ।गत सूर्यो अहनि प्राप्तो मम पुत्रो हि अनामिषः॥ ॥१०॥
स मया आहार संरोधात् पीडितः प्रीति वर्धनः ।अनुमान्य यथा तत्त्वम् इदम् वचनम् अब्रवीत्॥ ॥११॥
अहम् तात यथा कालम् आमिष अर्थी खम् आप्लुतः ।महेन्द्रस्य गिरेः द्वारम् आवृत्य च सुसमाश्रितः॥ ॥१२॥
तत्र सत्त्व सहस्राणाम् सागर अन्तर चारिणाम् ।पंथानम् एको अध्यवसम् संनिरोद्धुम् अवाङ् मुखः॥ ॥१३॥
तत्र कश्चित् मया दृष्टः सूर्य उदय सम प्रभाम् ।स्त्रियम् आदाय गच्छन् वै भिन्न अंजन चय उपमः॥ ॥१४॥
सो अहम् अभ्यवहार अर्थम् तौ दृष्ट्वा कृत निश्चयः ।तेन साम्ना विनीतेन पन्थानम् अनुयाचितः॥ ॥१५॥
न हि साम उपपन्नानाम् प्रहर्ता विद्यते भुवि ।नीचेषु अपि जनः कश्चित् किम् अङ्ग बत मत् विधः॥ ॥१६॥
स यातः तेजसा व्योम संक्षिपन् इव वेगतः ।अथ अहम् खे चरैः भूतैः अभिगम्य सभाजितः॥ ॥१७॥
दिष्ट्या जीवति सीत इति हि अब्रुवन् माम् महर्षयः ।कथंचित् स कलत्रः असौ गतः ते स्वस्ति असंशयम्॥ ॥१८॥
एवम् उक्तः ततो अहम् तैः सिद्धैः परम शोभनैः ।स च मे रावणो राजा रक्षसाम् प्रतिवेदितः॥ ॥१९॥
पश्यन् दाशरथेः भार्याम् रामस्य जनक आत्मजाम् ।भ्रष्ट आभरण कौशेयाम् शोक वेग पराजिताम्॥ ॥२०॥
राम लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त मूर्धजाम् ।एष काल अत्ययः तात इति वाक्यविदाम् वरः॥ ॥२१॥
एतत् अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् ।तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचित् पराक्रमे॥ ॥२२॥
अपक्षो हि कथम् पक्षी कर्म किंचित् समारभेत् ।यत् तु शक्यम् मया कर्तुम् वाक् बुद्धि गुण वर्तिना॥ ॥२३॥
श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुष आश्रयम् ।वाक् मतिभ्याम् हि सार्वेषाम् करिष्यामि प्रियम् हि वः॥ ॥२४॥
यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः ।तत् भवन्तो मति श्रेष्ठा बलवन्तो मनस्विनः॥ ॥२५॥
प्रहिताः कपि राजेन देवैः अपि दुरासदाः ।राम लक्ष्मण बाणाः च निशिताः कंक पत्रिणः॥ ॥२६॥
त्रयाणाम् अपि लोकानाम् पर्याप्ताः त्राण निग्रहे ।कामम् खलु दशग्रीवः तेजो बल समन्वितः ।भवताम् तु समर्थानाम् न किंचित् अपि दुष्करम्॥ ॥२७॥
तत् अलम् काल संगेन क्रियताम् बुद्धि निश्चयः ।न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवत् विधाः॥ ॥२८॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 59

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0