Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
एवम् उक्त्वा मुनिश्रेष्ठम् अरुदम् भृश दुःखितः ।अथ ध्यात्वा मुहूर्तम् तु भगवान् इदम् अब्रवीत्॥ ॥१॥
पक्षौ च ते प्रपक्षौ च पुनः अन्यौ भविष्यतः ।चक्षुषी चैव प्राणाः च विक्रमः च बलम् च ते॥ ॥२॥
पुराणे सुमहत् कार्यम् भविष्यम् हि मया श्रुतम् ।दृष्टम् मे तपसा चैव श्रुत्वा च विदितम् मम॥ ॥३॥
राजा दशरथो नाम कश्चित् इक्ष्वाकु वर्धनः ।तस्य पुत्रो महातेजा रामो नाम भविष्यति॥ ॥४॥
अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।तस्मिन् अर्थे नियुक्तः सन् पित्रा सत्य पराक्रमः॥ ॥५॥
नैर्ऋतो रावणो नाम तस्य भार्याम् हरिष्यति ।राक्षसेन्द्रो जनस्थानात् अवध्यः सुर दानवैः॥ ॥६॥
सा च कामैः प्रलोभ्यन्ती भक्ष्यैः भोज्यैः च मैथिली ।न भोक्ष्यति महाभागा दुःख मग्ना यशस्विनी॥ ॥७॥
परमान्नम् च वैदेह्या ज्ञात्वा दास्यति वासवः ।यत् अन्नम् अमृत प्रख्यम् सुराणाम् अपि दुर्लभम्॥ ॥८॥
तत् अन्नम् मैथिली प्राप्य विज्ञाय इन्द्रात् इदम् तु इति ।अग्रम् उद्धृत्य रामाय भू तले निर्वपिष्यति॥ ॥९॥
यदि जीवति मे भर्ता लक्ष्मणो वा अपि देवरः ।देवत्वम् गतयोः वा अपि तयोः अन्नम् इदम् तु इति॥ ॥१०॥
एष्यन्ति प्रेषिताः तत्र राम दूताः प्लवंगमाः ।आख्येया राम महिषी त्वया तेभ्यो विहंगम॥ ॥११॥
सर्वथा तु न गंतव्यम् ईदृशः क्व गमिष्यसि ।देश कालौ प्रतीक्षस्व पक्षौ त्वम् प्रतिपत्स्यसे॥ ॥१२॥
उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् स पक्षकम् ।इह स्थः त्वम् तु लोकानाम् हितम् कार्यम् करिष्यसि॥ ॥१३॥
त्वया अपि खलु तत् कार्यम् तयोः च नृप पुत्रयोः ।ब्राह्मणानाम् गुरूणाम् च मुनीनाम् वासवस्य च॥ ॥१४॥
इच्छामि अहम् अपि द्रष्टुम् भ्रातरौ राम लक्ष्मणौ ।न इच्छे चिरम् धारयितुम् प्राणान् त्यक्ष्ये कलेवरम् ।महर्षि तु तत् अब्रवीत् इदम् दृष्ट तत्त्व अर्थ दर्शिनः॥ ॥१५॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 62

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0