Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
परितुष्टः तु सुग्रीवः तेन वाक्येन हर्षितः ।लक्ष्मणस्य अग्रजम् शूरम् इदम् वचनम् अब्रवीत्॥ ॥१॥
सर्वथा अहम् अनुग्राह्यो देवतानाम् न संशयः ।उपपन्नः गुण उपेतः सखा यस्य भवान् मम॥ ॥२॥
शक्यम् खलु भवेत् राम सहायेन त्वया अनघ ।सुर राज्यम् अपि प्राप्तुम् स्व राज्यम् किमुत प्रभो॥ ॥३॥
सोऽहम् सभाज्यो बन्धूनाम् सुहृदाम् चैव राघव ।यस्य अग्नि साक्षिकम् मित्रम् लब्धम् राघव वंशजम्॥ ॥४॥
अहम् अपि अनुरूपः ते वयस्यो ज्ञास्यसे शनैः ।न तु वक्तुम् समर्थोऽहम् त्वयि आत्मगतान् गुणान्॥ ॥५॥
महात्मनाम् तु भूयिष्ठम् त्वत् विधानाम् कृत आत्मनाम् ।निश्चला भवति प्रीतिः धैर्यम् आत्मवताम् वर॥ ॥६॥
रजतम् वा सुवर्णम् वा शुभानि आभरणानि च ।अविभक्तानि साधूनाम् अवगच्छन्ति साधवः॥ ॥७॥
आढ्यो वा अपि दरिद्रो वा दुःखितः सुखितोऽपि वा ।निर्दोषः च सदोषः च वयस्यः परमा गतिः॥ ॥८॥
धन त्यागः सुख त्यागो देश त्यागोऽपि वा अनघः ।वयस्यार्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथा विधम्॥ ॥९॥
तत् तथा इति अब्रवीत् रामः सुग्रीवम् प्रिय दर्शनम् ।लक्ष्मणस्य अग्रतः लक्ष्म्या वासवस्य इव धीमतः॥ ॥१०॥
ततो रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महाबलम् ।सुग्रीवः सर्वतः चक्षुः वने लोलम् अपातयत्॥ ॥११॥
स ददर्श ततः सालम् अविदूरे हरीश्वरः ।सुपुष्पम् ईषत् पत्र आढ्यम् भ्रमरैः उपशोभितम्॥ ॥१२॥
तस्य एकाम् पर्ण बहुलाम् शाखाम् भंक्त्वा सुशोभिताम् ।रामस्य आस्तीर्य सुग्रीवो निषसाद स राघवः॥ ॥१३॥
तौ आसीनौ ततः दृष्ट्वा हनूमान् अपि लक्ष्मणम् ।साल शाखाम् समुत्पाट्य विनीतम् उपवेशयत्॥ ॥१४॥
सुख उपविष्टम् रामम् तु प्रसन्नम् उदधिम् यथा ।साल पुष्पाव संकीर्णे तस्मिन् गिरिवर उत्तमे॥ ॥१५॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा ।उवाच प्रणयाद् रामम् हर्ष व्याकुलित अक्षरम्॥ ॥१६॥
अहम् विनिकृतो भ्रात्रा चरामि एष भयार्दितः ।ऋष्यमूकम् गिरि वरम् हृत भार्यः सुदुःखितः॥ ॥१७॥
सोऽहम् त्रस्तः भये मग्नः वने संब्रान्त चेतनः ।वालिना निकृतः भ्रात्रा कृत वैरः च राघव॥ ॥१८॥
वालिनः मे भय आर्तस्य सर्वलोक अभयंकर ।मम अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि॥ ॥१९॥
एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ।प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन् इव॥ ॥२०॥
उपकार फलम् मित्रम् अपकारो अरि लक्षणम् ।अद्य एव तम् वधिष्यामि तव भार्या अपहारिणम्॥ ॥२१॥
इमे हि मे महाभाग पत्रिणः तिग्म तेजसः ।कार्तिकेय वन उद्भूताः शरा हेम विभूषिताः॥ ॥२२॥
कन्क पत्र परिच्छन्ना महेन्द्र अशनि सन्निभाः ।सुपर्वाणः सुतीक्ष्ण अग्रा सरोषा भुजगा इव॥ ॥२३॥
वालि सज्ञम् अमित्रम् ते भ्रातरम् कृत किल्बिषम् ।शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम्॥ ॥२४॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ।प्रहर्षम् अतुलम् लेभे साधु साध्विति च अब्रवीत्॥ ॥२५॥
राम शोक अभिभूतो अहम् शोक आर्तानाम् भवान् गतिः ।वयस्य इति कृत्वा हि त्वयि अहम् परिदेवये॥ ॥२६॥
त्वम् हि पाणि प्रदानेन वयस्यो मे अग्नि साक्षिकम् ।कृतः प्राणैः बहुमतः सत्येन च शपामि अहम्॥ ॥२७॥
वयस्य इति कृत्वा च विस्रब्धः प्रवदामि अहम् ।दुःखम् अन्तर्गतम् तन् मे मनो हरति नित्यशः॥ ॥२८॥
एतावत् उक्त्वा वचनम् बाष्प दूषित लोचनः ।बाष्प दूषितया वाचा न उच्चैः श्क्नोति भाषितुम्॥ ॥२९॥
बाष्प वेगम् तु सहसा नदी वेगम् इव आगतम् ।धारयामास धैर्येण सुग्रीवः राम संनिधौ॥ ॥३०॥
स निगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे ।विनिःश्वस्य च तेजस्वी राघवम् पुनरूचिवान्॥ ॥३१॥
पुरा अहम् वलिना राम राज्यात् स्वात् अवरोपितः ।परुषाणि च संश्राव्य निर्धूतो अस्मि बलीयसा॥ ॥३२॥
हृता भार्या च मे तेन प्राणेभ्यो अपि गरीयसी ।सुहृदः च मदीया ये संयता बन्धनेषु ते॥ ॥३३॥
यत्नवान् च स दुष्टात्मा मद् विनाशाय राघव ।बहुशः तत् प्रयुक्ताः च वानरा निहता मया॥ ॥३४॥
शंकया एतया अहम् च दृष्ट्वा त्वाम् अपि राघव ।न उपसर्पामि अहम् भीतो भये सर्वे हि बिभ्यति॥ ॥३५॥
केवलम् हि सहाया मे हनुमत् प्रमुखास्त्विमे ।अतः अहम् धारयामि अद्य प्राणान् कृच्छ्र गतः अपि सन्॥ ॥३६॥
एते हि कपयः स्निग्धा माम् रक्षन्ति समन्ततः ।सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च स्थिते॥ ॥३७॥
संक्षेपः ते एष मे राम किम् उक्त्वा विस्तरम् हि ते ।स मे ज्येष्ठो रिपुः भ्राता वाली विश्रुत पौरुषः॥ ॥३८॥
तद् विनाशे अपि मे दुःखम् प्रमृष्टम् स्यात् अनन्तरम् ।सुखम् मे जीवितम् चैव तद् विनाश निबन्धनम्॥ ॥३९॥
एष मे राम शोकान्तः शोक आर्तेन निवेदितः ।दुःखितः सुखितः वा अपि सख्युः नित्यम् सखा गतिः॥ ॥४०॥
श्रुत्वा एतत् च वचः रामः सुग्रीवम् इदम् अब्रवीत् ।किम् निमित्तम् अभूत् वैरम् श्रोतुम् इच्छामि तत्त्वतः॥ ॥४१॥
सुखम् हि कारणम् श्रुत्वा वैरस्य तव वानर ।आनन्तर्यद् विधास्यामि संप्रधार्य बलाबलम्॥ ॥४२॥
बलवान् हि मम अमर्षः श्रुत्वा त्वाम् अवमानितम् ।वर्धते हृदय उत्कम्पी प्रावृड् वेग इव अंभसः॥ ॥४३॥
हृष्टः कथय विस्रब्धो यावत् आरोप्यते धनुः ।सृष्टः च हि मया बाणो निरस्तः च रिपुः तव॥ ॥४४॥
एवम् उक्तः तु सुग्रीवः काकुत्स्थेन महात्मना ।प्रहर्षम् अतुलम् लेभे चतुर्भिः सह वानरैः॥ ॥४५॥
ततः प्रहृ^इष्ट वदनः सुग्रीवः लक्ष्मणाग्रजे ।वैरस्य कारणम् तत्त्वम् आख्यातुम् उपचक्रमे॥ ॥४६॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 8

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0