Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Sundara Kanda
प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि पुम्गवः ।गुण अभिरामम् रामम् च पुनः चिन्ता परो अभवत्॥ ॥१॥
स मुहूर्तम् इव ध्यात्वा बाष्प पर्याकुलेक्षणः ।सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह॥ ॥२॥
मान्या गुरु विनीतस्य लक्ष्मणस्य गुरु प्रिया ।यदि सीता अपि दुह्ख आर्ता कालो हि दुरतिक्रमः॥ ॥३॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।न अत्यर्थम् क्षुभ्यते देवी गन्गा इव जलद आगमे॥ ॥४॥
तुल्य शील वयो वृत्ताम् तुल्य अभिजन लक्षणाम् ।राघवो अर्हति वैदेहीम् तम् च इयम् असित ईक्षणा॥ ॥५॥
ताम् दृष्ट्वा नव हेम आभाम् लोक कान्ताम् इव श्रियम् ।जगाम मनसा रामम् वचनम् च इदम् अब्रवीत्॥ ॥६॥
अस्या हेतोर् विशाल अक्ष्या हतो वाली महा बलः ।रावण प्रतिमो वीर्ये कबन्धः च निपातितः॥ ॥७॥
विराधः च हतः सम्ख्ये राक्षसो भीम विक्रमः ।वने रामेण विक्रम्य महा इन्द्रेण इव शम्बरः॥ ॥८॥
चतुर् दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।निहतानि जन स्थाने शरैर् अग्नि शिख उपमैः॥ ॥९॥
करः च निहतः सम्ख्ये त्रिशिराः च निपातितः ।दूषणः च महा तेजा रामेण विदित आत्मना॥ ॥१०॥
ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि पालितम् ।अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम्॥ ॥११॥
सागरः च मया क्रान्तः श्रीमान् नद नदी पतिः ।अस्या हेतोर् विशाल अक्ष्याः पुरी च इयम् निरीक्षिता॥ ॥१२॥
यदि रामः समुद्रान्ताम् मेदिनीम् परिवर्तयेत् ।अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः॥ ॥१३॥
राज्यम् वा त्रिषु लोकेषु सीता वा जनक आत्मजा ।त्रैलोक्य राज्यम् सकलम् सीताया न आप्नुयात् कलाम्॥ ॥१४॥
इयम् सा धर्म शीलस्य जनकस्य महात्मनः ।सुता मैथिलराजस्य सीता भर्तृदृढ व्रता॥ ॥१५॥
उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल मुख क्षते ।पद्म रेणु निभैः कीर्णा शुभैः केदार पाम्सुभिः॥ ॥१६॥
विक्रान्तस्य आर्य शीलस्य सम्युगेषु अनिवर्तिनः ।स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञो यशस्विनी॥ ॥१७॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदित आत्मनः ।इयम् सा दयिता भार्या राक्षसी वशम् आगता॥ ॥१८॥
सर्वान् भोगान् परित्यज्य भर्तृ स्नेह बलात् कृता ।अचिन्तयित्वा दुह्खानि प्रविष्टा निर्जनम् वनम्॥ ॥१९॥
सम्तुष्टा फल मूलेन भर्तृ शुश्रूषणा परा ।या पराम् भजते प्रीतिम् वने अपि भवने यथा॥ ॥२०॥
सा इयम् कनक वर्ण अन्गी नित्यम् सुस्मित भाषिणी ।सहते यातनाम् एताम् अनर्थानाम् अभागिनी॥ ॥२१॥
इमाम् तु शील सम्पन्नाम् द्रष्टुम् इच्चति राघवः ।रावणेन प्रमथिताम् प्रपाम् इव पिपासितः॥ ॥२२॥
अस्या नूनम् पुनर् लाभाद् राघवः प्रीतिम् एष्यति ।राजा राज्य परिभ्रष्टः पुनः प्राप्य इव मेदिनीम्॥ ॥२३॥
काम भोगैः परित्यक्ता हीना बन्धु जनेन च ।धारयति आत्मनो देहम् तत् समागम कान्क्षिणी॥ ॥२४॥
न एषा पश्यति राक्षस्यो न इमान् पुष्प फल द्रुमान् ।एकस्थ हृदया नूनम् रामम् एव अनुपश्यति॥ ॥२५॥
भर्ता नाम परम् नार्या भूषणम् भूषणाद् अपि ।एषा हि रहिता तेन शोभन अर्हा न शोभते॥ ॥२६॥
दुष्करम् कुरुते रामो हीनो यद् अनया प्रभुः ।धारयति आत्मनो देहम् न दुह्खेन अवसीदति॥ ॥२७॥
इमाम् असित केश अन्ताम् शत पत्र निभ ईक्षणाम् ।सुख अर्हाम् दुःखिताम् ज्~आत्वा मम अपि व्यथितम् मनः॥ ॥२८॥
क्षिति क्षमा पुष्कर सम्निभ अक्षी ।या रक्षिता राघव लक्ष्मणाभ्याम् ।सा राक्षसीभिर् विकृत ईक्षणाभिः ।सम्रक्ष्यते सम्प्रति वृक्ष मूले॥ ॥२९॥
हिम हत नलिनी इव नष्ट शोभा ।व्यसन परम्परया निपीड्यमाना ।सह चर रहिता इव चक्र वाकी ।जनक सुता कृपणाम् दशाम् प्रपन्ना॥ ॥३०॥
अस्या हि पुष्प अवनत अग्र शाखाः ।शोकम् दृढम् वै जनयति अशोकाः ।हिम व्यपायेन च शीतरश्मिः ।रभ्युत्थितो न एक सहस्र रश्मिः॥ ॥३१॥
इति एवम् अर्थम् कपिर् अन्ववेक्ष्य ।सीता इयम् इति एव निविष्ट बुद्धिः ।सम्श्रित्य तस्मिन् निषसाद वृक्षे ।बली हरीणाम् ऋषभः तरस्वी॥ ॥३२॥
End of chapter ॥
1
Valmiki Ramayana · Sundara Kanda

Sarga 16

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0