Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Sundara Kanda
हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्॥ ॥१॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।ततो बहुविधां चिन्तां चिन्तयामास वानरः॥ ॥२॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया॥ ॥३॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।गूढेन चरता तावदवेक्षितमिदं मया॥ ॥४॥
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।राक्षसाधिपतेरस्य प्रभावो रावणस्य च॥ ॥५॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम्॥ ॥६॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम्॥ ॥७॥
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्॥ ॥८॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्॥ ॥९॥
मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।समाश्वासयितुं न्याय्यः सीतादर्शनलालसः॥ ॥१०॥
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्॥ ॥११॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम्॥ ॥१२॥
रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम्॥ ॥१३॥
सीतासन्देशरहितं मामितस्त्वरया गतम् ।निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा॥ ॥१४॥
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति॥ ॥१५॥
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।शनैराश्वासयिष्यामि सन्तापबहुलामिमाम्॥ ॥१६॥
अहं त्वति तनुश्चैव वानरश्च विशेषतः ।वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्॥ ॥१७॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।रावणं मन्यमाना मां सीता भीता भविष्यति ।वानरस्य विशेषेण कथं स्यादभिभाषणम्॥ ॥१८॥
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता॥ ॥१९॥
सेयमालोक्य मे रूपं जानकी भाषितं तथा ।रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति॥ ॥२०॥
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।जानमाना विशालाक्षी रावणं कामरूपिणम्॥ ॥२१॥
सीतया च कृते शब्दे सहसा राक्षसीगणः ।नानाप्रहरणो घोरः समेयादन्तकोपमः॥ ॥२२॥
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्॥ ॥२३॥
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः॥ ॥२४॥
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः॥ ॥२५॥
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने॥ ॥२६॥
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः॥ ॥२७॥
संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः॥ ॥२८॥
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्॥ ॥२९॥
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्॥ ॥३०॥
उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।सागरेण परिक्षिप्ते गुप्त वसति जानकी॥ ॥३१॥
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने॥ ॥३२॥
विमृशंश्च न पश्यामि यो हते मयि वानरः ।शतयोजनविस्तीर्णं लङ्गयेत महोदधिम्॥ ॥३३॥
कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः॥ ॥३४॥
असत्यानि च युद्धानि संशयो मे न रोचते ।कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम्॥ ॥३५॥
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।एष दोषो महान् हि स्यान्मम सीताभिभाषणे॥ ॥३६॥
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ ॥३७॥
अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥ ॥३८॥
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्॥ ॥३९॥
कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम्॥ ॥४०॥
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्॥ ॥४१॥
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।शुभानि धर्मयुक्तानि वचनानि समर्पयन्॥ ॥४२॥
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।श्रद्धास्यति यथा हीयं तथा सर्वं समादधे॥ ॥४३॥
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्॥ ॥४४॥
End of chapter ॥
1
Valmiki Ramayana · Sundara Kanda

Sarga 30

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0