Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Sundara Kanda
सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।विनीतवेषः कृपणः प्रणिपत्योपसृत्य च॥ ॥१॥
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा॥ ॥२॥
कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते॥ ॥३॥
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्॥ ॥४॥
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।यक्षाणां किन्नराणां वा का त्वं भवसि शोभने॥ ॥५॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।वसूनां वा वरारोहे देवता प्रतिभासे मे॥ ॥६॥
किन्नु चन्द्रमसा हीना पतिता विबुधालयात् ।रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता॥ ॥७॥
का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने॥ ॥८॥
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती॥ ॥९॥
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि॥ ॥१०॥
रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि ।न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात्॥ ॥११॥
व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये ।महिषी भूमिपालस्य राजकन्या ऽसि मे मता॥ ॥१२॥
रावणेन जनस्थानाद् बलादपहृता यदि ।सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः॥ ॥१३॥
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्॥ ॥१४॥
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम्॥ ॥१५॥
पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः ।स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः॥ ॥१६॥
दुहिता जनकस्याहं वैदेहस्य महात्मनः ।सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः॥ ॥१७॥
समा द्वादश तत्राहं राघवस्य निवेशने ।भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ ॥१८॥
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे॥ ॥१९॥
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।कैकेयी नाम भर्तारं देवी वचनमब्रवीत्॥ ॥२०॥
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ ॥२१॥
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः॥ ॥२२॥
स राजा सत्यवाग् देव्या वरदानमनुस्मरन् ।मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्॥ ॥२३॥
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ।ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत॥ ॥२४॥
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्॥ ॥२५॥
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।अपि जीवितहेतोर्वा रामः सत्यपराक्रमः॥ ॥२६॥
स विहायोत्तरीयाणि महार्हाणि महायशाः ।विसृज्य मनसा राज्यं जनन्यै मां समादिशत्॥ ॥२७॥
सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते॥ ॥२८॥
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः॥ ॥२९॥
त वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम्॥ ॥३०॥
वसतो दणऽडकारण्ये तस्याहममितौजसः ।रक्षसा ऽपहृता भार्या रावणेन दुरात्मना॥ ॥३१॥
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्॥ ॥३२॥
End of chapter ॥
1
Valmiki Ramayana · Sundara Kanda

Sarga 33

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0