Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Sundara Kanda
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत्॥ ॥१॥
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्॥ ॥२॥
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।स त्वां दाशरथी रामो देवि कौशलमब्रवीत्॥ ॥३॥
लक्ष्मणश्च महातेजा भर्तुस्ते ऽनुचरः प्रियः ।कृतवाञ्छोकसन्तप्तः शिरसा ते ऽभिवादनम्॥ ॥४॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत्॥ ॥५॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।एति जीवन्तमानन्दो नरं वर्षशतादपि॥ ॥६॥
तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्भुता ।परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः॥ ॥७॥
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।सीतायाः शोकदीनायाः समीपमुपचक्रमे॥ ॥८॥
यथा यथा समीपं स हनुमानुपसर्पति ।तथा तथा रावणं सा तं सीता परिशङ्कते॥ ॥९॥
अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे ।रूपान्तरमुपागम्य स एवायं हि रावणः॥ ॥१०॥
तामशोकस्य शाखां सा विमुक्ता शोककर्शिता ।तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्॥ ॥११॥
हमुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत॥ ॥१२॥
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा॥ ॥१३॥
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।उत्पादयसि मे भूयः सन्तापं तन्न शोभनम्॥ ॥१४॥
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।जनस्थाने मया दृष्टस्त्वं स एवासि रावणः॥ ॥१५॥
उपवासकृशां दीनां कामरूप निशाचर ।सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम्॥ ॥१६॥
अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्॥ ॥१७॥
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।गुणान् रामस्य कथय प्रियस्य मम वानर॥ ॥१८॥
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥ ५.३४.१९॥मि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ॥। ॥१९॥
अहो स्वप्नस्य सुखता या ऽहमेंव चिराहृता ।प्रेषितं नाम पश्यामि राघवेण वनौकसम्॥ ॥२०॥
स्वप्ने ऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी॥ ॥२१॥
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम॥ ॥२२॥
किन्नु स्याच्चित्तमोहो ऽयं भवेद्वातगतिस्त्वियम् ।उन्मादजो विकारो वा स्यादियं मृगतृष्णिका॥ ॥२३॥
अथवा नायमुन्मादो मोहो ऽप्युन्मादलक्षणः ।संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम्॥ ॥२४॥
इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्॥ ॥२५॥
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।न प्रतिव्याजहाराथ वानरं जनकात्मजा॥ ॥२६॥
सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ।श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत्॥ ॥२७॥
आदित्य इव तेजस्वी लोककान्तः शशी यथा ।राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः॥ ॥२८॥
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान्॥ ॥२९॥
.स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः॥ ॥३०॥
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः॥ ॥३१॥
अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।शून्ये येनापनीता ऽसि तस्य द्क्ष्यसि यत्फलम्॥ ॥३२॥
नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः॥ ॥३३॥
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्॥ ॥३४॥
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्॥ ॥३५॥
रामस्य च सखा देवि सुग्रीवो नाम वानरः ।राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्॥ ॥३६॥
नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता॥ ॥३७॥
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्॥ ॥३८॥
अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्॥ ॥३९॥
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।त्वां द्रष्टुमुपयातो ऽहं समाश्रित्य पराक्रमम्॥ ॥४०॥
नाहमस्मि तथा देवि यथा मामवगच्छसि ।विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम॥ ॥४१॥
End of chapter ॥
1
Valmiki Ramayana · Sundara Kanda

Sarga 34

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0